________________
-५४.१७८]
५४ मैत्रेयः। संप्रज्वलितानेकज्वालीभूतान् , ताश्च लोहकुम्भीः पश्येत् , ताः कारणाः कार्यमाणान् , तांश्च वेदनामनुभूयमानान् संजानीत । तानि च नैरयिकान्यग्निसंतापदुःखानि पश्येदनुभवेत् । शुभकर्मोपचयेन वा देवभवनं पश्येत् । देवपर्षदप्सरोगणं सर्वव्यूहालंकारांश्च पश्येत् , उद्यानविमाननदीपुष्करिणीरत्नपर्वतकल्पवृक्षपरिभोगान् वा पश्येदनुभवेत् , तदायुःकालं च संजानीयात्-इतश्चयुतस्तत्र वोपपन्नोऽनन्तर्हित एव कर्मविपयाचिन्त्यतया एतां क्रियां 5 पश्येत् संजानीत अनुभवेत् । एवमेव सुधनः श्रेष्ठिदारको बोधिसत्त्वकर्मविपयाचिन्त्यतया तत्सर्वव्यूहविकुर्वितमद्राक्षीत् । तद्यथा भूतग्रहाविष्टः पुरुषो विविधानि रूपगतानि पश्यति । यच्च परिपृच्छते, तद्व्याकरोति । एवमेव सुधनः श्रष्ठिदारको बोधिसत्त्वज्ञानाधिष्टानवलेन तान् 5523 सर्वव्यूहानद्राक्षीत् । तद्यथा नागभवनप्रविष्टः पुरुषो नागसंज्ञागतप्रवेशेन दिवसं वा सप्ताह वा अर्धमासं वा मासं वा संवत्सरं वा वर्षशतं वा संज्ञामात्रं संजानीते, नागसंज्ञागतोत्सृष्टो 10 मनुष्यसंज्ञागतेन मुहूर्तमात्रं पश्येत् । एवमेव सुधनः श्रेष्ठिदारको बोधिसत्त्वसंज्ञागतानुस्मृतबुद्धिस्तन्मैत्रेयस्य बोधिसत्त्वस्य अधिष्ठानवशेन तन्मुहूर्त वहूनि कल्पकोटीनियुतशतसहस्राणि संजानीते स्म । तद्यथास्ति सर्वजगद्रव्यूहगर्भ नाम महाब्रह्मणो विमानम् । तत्र सर्वत्रिसाहस्रमहासाइस्रो लोकधातुराभासमागच्छति प्रतिभासयोगेन सर्वारम्बणामिश्रीभूतः । एवमेव सुधनः श्रेष्ठिदारकः तान् सर्वान् व्यूहानन्योन्यासंकीर्णान् सर्वारम्बणेषु प्रतिभासप्राप्तः तद्यथा 15 कृत्स्नायतनसमापत्तिविहारी भिक्षुरेकोऽद्वितीयः शयने वा चंक्रमे वा निषद्यायां वा उत्थितो वा निषण्णो वा यथाकृत्स्नसमापत्तिविषयावतारेण सर्वलोकं संजानीते पश्यत्यनुभवति ध्यायिविशेषाचिन्त्यतायै । एवमेव सुधनः श्रेष्ठिदारकः तान् सर्वान् व्यूहान् यथाविषयावतारेण पश्यति संजानीते । तद्यथा गन्धर्वनगराणां सर्वव्यूहालंकारा गगनतले संदृश्यन्ते, न च कस्यचिदावरणत्वाय कल्पन्ते । तद्यथा यक्षविमानप्रविष्टानि मनुष्य- 20 विमानानि यक्षविमानान्तर्गतान्यन्योन्यासंभिन्नानि यथाकामविषयपरिशुद्ध्या संदृश्यन्ते। तद्यथा महासमुद्रे सर्वस्य त्रिसाहनमहासाहस्रस्य लोकधातोः प्रतिभाससमुद्राः संदृश्यन्ते । तद्यथ' मायोकारो मन्त्रविद्यौषधिबलाधिष्ठानेन सर्वरूपगतानि सर्वक्रियाश्च संपश्यति । एवमेव सुधनः श्रेष्ठिदारको मैत्रेयस्य बोधिसत्त्वस्याधिष्ठानज्ञानमायाचिन्त्यप्रदेशेन तानि सर्वव्यूहविकुर्वितान्यद्राक्षीत् धर्मज्ञानमायावलाभिनिहतेन बोधिसत्त्ववशिताधिष्ठानज्ञानमायागतेन ॥ 25
अथ खलु मैत्रेयो बोधिसत्त्वस्तस्कूटागारं प्रविश्य तदधिष्ठानमवसृज्य सुधनं श्रेष्ठिदारकमच्छटाशब्दं कृत्वा एतदवोचत-उत्तिष्ठ कुलपुत्र । एषा धर्माणां धर्मता। 524 अविष्ठपनप्रत्युपस्थानलक्षणाः कुलपुत्र सर्वधर्मा बोधिसत्त्वज्ञानाधिष्ठिताः । एवं खभावापरिनिष्पन्ना मायास्वप्नप्रतिभासोपमाः । अथ खलु सुधनः श्रेष्ठिदारकः तेनाच्छटाशब्देन ततः समाधेर्युत्थितः । तं मैत्रेयो बोधिसत्त्व आह-दृष्टा ते कुलपुत्र बोधिसत्त्वाधिष्ठानविकुर्वाः ? 80 B 208 दृष्टास्ते बोधिसत्त्वसंभारबलनिष्यन्दाः ? दृष्टा ते बोधिसत्त्वप्रणिधिज्ञानविठपना ? दृष्टास्ते वोधिसत्त्वचर्यासमुदागमाः? श्रुतं ते बोधिसत्त्वनिर्याणमुखम् ? दृष्टा ते बुद्धक्षेत्रव्यूहाप्रमाणता ? दृष्टा
१ Bom. from यक्षविमान...मायाकारो.