SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ 10 -५४.१७८] ५४ मैत्रेयः। ३९३ सूधनो वरप्रहृष्टमानसो __ मैत्रकस्य क्षिपि तानि हर्षितः । तस्य शीर्प परिमार्जते तदा मैत्रनाथ सुधनं च भाषते ॥ १७५ ॥ साधु साधु जिनपुत्र सूधन यस्य ते अपरिखेद ईदृशः । त्वं भविष्यसि गुणान भाजनं __मञ्जुघोषु यथ यादृशो व हम् ॥ १७६ ॥ श्रुत्व सूधन उदानुदानयि दुर्लभा भवशतेषु ईदृशाः। मित्र येभिरिह मे समागमः साधु आगमनमद्य मे इह ॥ १७७ ॥ साधु सत्त्वगुणपारमिंगतो मञ्जुघोष भवतोऽनुभावतः। मित्र लब्ध मय दुर्लभा इमे भोतु मे लघु समागमस्वयि ॥ १७८॥ अथ खलु सुधनः श्रेष्ठिदारको मैत्रेयस्य बोधिसत्त्वस्य पुरतःप्राञ्जलिः स्थित्वा एवमाहअहमार्य अनुत्तरायां सम्यक्संबोधावमिसंप्रस्थितः। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम्। आर्यमैत्रेयो व्याकृतः सर्वतथागतरेकजातिप्रतिबद्धतया अनुत्तरायां सम्यक्संबोधौ। यश्चैकजातिप्रतिवद्धोऽनुत्तरायां सम्यक्संवोधौ, स समतिक्रान्तः 20 सर्वबोधिसत्त्वव्यवस्थानानि, सोऽवक्रान्तो बोधिसत्त्वनियामम् । तेन परिपूरिताः सर्वपारमिताः। सोऽवतीर्णः सर्वाशाक्षान्तिमुखानि । तेन प्रतिलब्धाः सर्वबोधिसत्त्वभूमयः । स विक्रीडितः सर्वविमोक्षमुखेषु । तेन परिनिष्पादिताः सर्वसमाधयः। स गतिंगतः सर्वबोधिसत्त्वगतिषु । तेन प्रतिलब्धाः सर्वधारणीप्रतिभाना आलोकनयाः । स वशिप्राप्तः सर्ववोधिसत्त्ववशितासु। तेन समुपार्जिताः सर्वबोधिसत्त्वसंभाराः । स विक्रीडितः प्रज्ञोपायकौशल्यनयेषु । तेनोत्पा- 25 दिता महाभिज्ञाविद्याज्ञानालोकनयाः । स निर्यातः सर्वशिक्षासु । तेन परिशोधिताः सर्वबोधिसत्त्वचर्याः । तेनाभिनिर्हतानि सर्वप्रणिधाननिर्याणमुखानि । तेन प्रतीष्टानि सर्वतथागतव्याकरणानि । सोऽभिज्ञः सर्वयाननिर्याणमुखानाम् । तेन संधारितानि सर्वतथाधिष्टानानि । तेन संगृहीता सर्वबुद्धबोधिः । तेनाधारिताः सर्वतथागतकोशाः । स गाधरः सर्वतथागतगुह्यानाम् । स मूर्धप्राप्तः सर्वबोधिसत्त्वगुह्यमण्डलस्य । स शूरः सर्वक्केशवंश-30 विक्षोभितासु । स दैशिकः संसाराटवीप्राप्तानाम् । स वैद्यः क्लेशातुराणाम् । सोमः सर्वसत्त्वानाम् । स इन्द्रः, स ज्येष्ठः सर्वार्यपुद्गलानाम् । स उत्तमः सर्वार्यश्रावकप्रत्येकबुद्धा 400 गण्ड, ५०
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy