________________
[५४.१६७
16
गण्डव्यूहसूत्रम् । सर्वधर्मप्रतिपत्तिमुत्थितः ___ सर्वमार्गअनुमार्गसुस्थितः। बुद्धपुत्र प्रणिधानसुस्थित
उत्थि सर्वगुणधर्मभाजन ॥ १६७ ॥ यादृशाय अधिमुक्तिसंपदा
वन्दनं कृतमिदं त्वया मम । सर्वबुद्धपरिषासु संमुखं
नोचिरेण हि समुद्गमिष्यसि ॥ १६८॥ साधु सूधन अखिन्नमानसः __सर्वबुद्धप्रणिधानचेतनः । त्वं भविष्यसि दृढव्रताचिरं
सर्वबुद्धगुणपारमिंगतः ॥ १६९॥ सत्त्व मञ्जुशिरि पृच्छ सूधन
ज्ञानगोचरविमोक्षपारगम् । भद्रनाम वर चर्य उत्तमा
तनुमन्तिमे प्रवेशयिष्यति ॥ १७०॥ एव मैत्रकु असङ्गगोचरो
दृष्ट सूधन गुणैः समुद्गतम् । दर्शयित्व परिषाय संमुखं
वर्णकोशमिमु तस्य व्याहरि ॥ १७१ ॥ श्रुत्व सूधन तदानुशासनी
मीदृशी च अनुशास्ति उत्तमाम् । प्रीतिवेग अभिष्यन्दितेन्द्रिया
अश्रुवेग विपुलान् प्रमुञ्चति ॥ १७२ ॥ सर्वरोमहरिषोद्गताश्रयो
निश्वसन्तु परिप्रीणितेन्द्रियः । उत्थिहित्व सुधनः कृताञ्जलिः
मैत्र नाम कुरुते प्रदक्षिणम् ॥ १७३ ॥ तस्य मनुशिरि तेन तेजसा
पुष्पहाररतना च पाणिषु । संस्थिता सुरुचिरा मनोरमा
बोधिसत्त्वप्रणिधानसंभवाः ॥ १७ ॥
8489