________________
-५४.१६६]
8483
B193
५४ मैत्रेयः। भोति भूय सुगतान संभवो ___ मित्रधर्मश्रवणं च श्रूयते । नो च श्रूयति अयं पुनर्नयो ___ आशयो यदि न भोति शोधितः ॥ १५९ ॥ तेन श्रद्धमधिमुक्तिआशयं
संजनित्व गुरुगौरवं परम् । काङ्क्षदृष्टिपरिखेदवर्जितो __भूय भूय नयमीदृशं शृणु ॥ १६० ॥ तेष लाभ परमा अचिन्तिया
स्तेष मानुषभवः सुआगतः। यैरियं चरि प्रवेशमीदृशं
श्रुत्व एव प्रणिधी भिर्निर्द्वता ॥ १६१ ॥ तस्य सर्वि सुगता न दुर्लभा
तस्य सर्वि जिनपुत्र नारतः । तस्य बोधयि न भूयु संशयो
येन एव अधिमुक्ति शोधिता ॥ १६२ ।। तेन सर्वि विनया न वर्जिताः
तेन सर्वदुखधर्म उज्झिताः । तेन सर्वगुणसंग्रहः कृतः __ यो इमं नयु प्रविष्ट ईदृशम् ॥ १६३ ॥ नोचिरेण इमु कायु उज्झिया
बुद्धक्षेत्र परिशुद्ध यास्यसि । बोधिसत्त्वभवनं प्रवेक्ष्यसि
द्रक्ष्यसे दशदिशे तथागतान् ॥ १६४ ॥ पूर्वहेतुधन तुभ्य सूधन
प्रत्युत्पन्न अधिमुक्ति निश्चिता। मित्र सेवसि विशेषअर्थिकः
तेन वर्धयि जले यथोत्पलम् ॥ १६५ ॥ सर्वमित्रअभिराधनाशया
सर्वबुद्धआरागणाशयाः। सर्वधर्मपरिपृच्छनाशया
उत्थिहो किलमथो न सुव्रता ॥ १६६ ॥