SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ B194 गण्डव्यूहसूत्रम् । [५४.१७८नाम् । स कर्णधारः संसारसागरप्राप्तानाम् । तेनाकर्षितं महत्त्वसत्त्वविनयोपायजालम् । तेन व्यवलोकितानि परिपक्वजगदिन्द्रियाणि । स संप्रयुक्तः सर्वसत्त्वानाम् , परिपालनयुक्तः सर्वबोधिसत्त्वानाम् । स संगायनप्रयुक्तः सर्वबोधिसत्त्वक्रियासु । स संस्थितः सर्वतथागतपर्पन्मण्डलेषु । स प्रतिभासप्राप्तः सर्वजगद्भवनेषु । सोऽनुपलिप्तः सर्वलोकधर्मैः । स 5 समतिक्रान्तः सर्वमारविषयेभ्यः । सोऽनुगतः सर्वबुद्धविषयम् । सोऽनावरणप्राप्तः सर्वबोधि सत्त्वविपये । स पूजाप्रयुक्तः सर्वतथागतानाम् । स एकोतीभावगतः सर्वबुद्धधर्मेषु । तस्यावबद्धोऽभिषकपट्टः । तेनाध्यासितं महाधर्मराज्यम् । सोऽभिषिक्तः सर्वज्ञज्ञानविपये । ततः प्रभवः सर्वबुद्धधर्माणाम् । तस्य वोधिप्राप्तं सर्वज्ञज्ञानाधिपत्यम् । तद्वदतु मे आर्य:-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम् , यथा प्रतिपद्यमानो 10 बोधिसत्त्वो बोधिमधिगच्छति, सर्वबुद्धधर्मान् प्रतिमानयति, यथानिमन्त्रितं सत्त्वधातुमुत्तार यति, यथाभिरूढां प्रतिज्ञां निस्तारयति, महाबोधिचर्यारम्भं समाश्वासयति, सदेवकं लोकं न विसंवदति, आत्मना सर्वबुद्धधर्मसंघान् व्यवच्छिनत्ति । बुद्धवंशमशून्यीकरोति बोधिसत्त्वकुलम् । संधारयति तथागतनेत्रीम् ॥ अथ खलु मैत्रेयो बोधिसत्त्वः सर्व तत्पर्षन्मण्डलमवलोक्य सुधनं श्रेष्ठिदारकमुपदर्श15 यन्नेवमाह-पश्यथ कुलपुत्रा इमं श्रेष्ठिपुत्रम् , योऽयं मां बोधिसत्त्वचर्चागुणपरिनिष्पत्ति परिपृच्छति । एष मार्षाः श्रेष्ठिदारकः अनेन वीर्यारम्भेण, अनया अर्थिकतया, एतेन च्छन्दसमादानेन, एतया दृढाशयतया, अनिवळवीर्यतया, एतया बुद्धधर्मातृप्ततया, एतया विशेषपरिमार्गणतया, एतया दीप्तशिरश्चैलोपमतया, एतया कल्याणमित्रदर्शनकामतया, एतया कल्याणमित्रपर्युपासनापरिखेदतया सर्वकल्याणमित्राणि परिमार्गमाणः 20 परिपृच्छन् पर्युपासीनो म श्रिया कुमारभूतेन संप्रेषितो धन्याकरान्नगरादुपादाय सर्वदक्षिणापथमटन् दशोत्तरं कल्याणमित्रशतं परिपृच्छन् यावन्ममान्तिकमनुप्राप्तः सर्वपरिखेदविगतेनाध्याशयेन । दुर्लभं कुलपुत्रा एवंरूपाणां महायानसंग्रस्थितानां महाप्रतिज्ञासमारूढानां महारम्भव्यवसितमानसानां महाकरुणासंनद्धगात्राणां महामैत्रीसत्त्वपरित्राणमतीनां महावीर्यपारमितोद्युक्तानां महासत्त्वसार्थपरिपालनाभियुक्तानां महासंसारॐ सागरसत्त्वतारणप्रतिपन्नानां सर्वज्ञतामार्गसंप्रस्थितानां महाधर्मनौसमुदानयनोद्युक्तानां महाधर्मरत्नपुण्यसमुदानयनकृतव्यवसायानां महाधर्मयज्ञसंमारोपचयोयुक्तानां नामधेयश्रवणं वा रूपकायदर्शनं वा गोचरसंवासो वा चर्यासभागता वा। तत्कस्य हेतोः ? एष हि कुलपुत्राः सत्पुरुषः सर्वजगत्परित्राणाय अभ्युत्थितः, सर्वदुःखसत्त्वपरिमोचनतायै सर्वदुर्गति समुच्छोषणाय सर्वाक्षणविनिवर्तनाय सर्वविषममार्गपरिवर्तनतायै सर्वाज्ञानतमोन्धकार30 विधमनतायै सर्वसंसारकान्तारसमतिक्रमणतायै सर्वगतिचक्रविनिवर्तनतायै सर्वमारविषय समतिक्रमणतायै सर्वनिकेतस्थानोच्चलनतायै सर्वालयनिलयोनोदनतायै कामपङ्कसमुद्धरणतायै नन्दीरागप्रहाणाय दृष्टिबन्धननिरिणाय सत्कायाभिष्वङ्गविनिवर्तनतायै संज्ञापाशसमुच्छेद 8491
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy