________________
३८४
[५४.२०४
8484
गण्ड यूहलूम। धर्मधातुतलभेदभासनो ___ लोकधातुतलभेदशोवनः । सर्वधर्मतलभेदपारगो __ भेष्यसे सुधन प्रीतिमान् भव ॥ १०४ ॥ यादृशं तव प्रयोग सूरतः
श्रद्ध यादृश तवा अनिन्दितः । यादृशश्च गुणवांस्तवाशयः
सर्व आप परिपूरषिष्यति ॥ १०५ ॥ सर्ववुद्ध नचिरेण द्रक्ष्यसि
सर्वक्षेत्र नचिरेण यास्यसि । सर्वधर्म नचिरेण ज्ञास्यसि
तादृशं ति शुभमात्मना कृतम् ॥ १०६॥ क्षेत्रसागर विशोधयिष्यसे
सत्त्वसागर विमोचयिष्यसि । चर्यसागर प्रपूरयिष्यसि
तादृशो * * प्रतिपत्तिसागरः॥ १०७ ॥ त्वं भविष्यसि गुणान भाजनं
त्वं भविष्यसि शुभान संभवः । त्वं भविष्यसि जिनौरसैः समो
यादृशं ति अधिमुक्तिमण्डलम् ॥ १०८ ॥ मारमण्डल पराजितं त्वया
कर्ममण्डल विशोधितं च ते । क्लेशमण्डल विशोधितं त्वया
यादृशं ति प्रणिधानमण्डलम् ॥ १०९॥ ज्ञानवर्तनि विशोधयिष्यसे
धर्मवर्तनि प्रभावयिष्यसि । कर्मक्लेशदुखयन्ववर्तनि
नोचिरेण विनिवर्तयिष्यसि ॥ ११०॥ लोकचक्रभवचक्रमाश्रितं
पञ्चगण्डगतिचक्रमोहितम् ।
-
Bअप.