SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ३८३ ५४ मैत्रैयः। ईदृशाशयसुमूलसंस्थितो ईदृशो दृढप्रयोगवर्धितः । ईदृशस्त्रिभवछादनप्रभो ज्ञानवृक्ष फलदः सुदुर्लभः ॥ ९६ ॥ एष गुणसंभवनार्थिकः सर्वधर्मपरिपृच्छनार्थिकः । सर्वसंशयविदारणार्थिकः - सर्व मित्र भजते अतन्द्रितः ॥ ९७ ॥ एष मारकलिक्लेशसूदनो __ एष दृष्टिमलतृष्णशोधनः । एष सर्वजगमोक्षणोद्यतः एष ते सदविशेषपण्डितः ॥ ९८ ॥ एष दुर्गति विशोधयिष्यति एष स्वर्गमुपदर्शयिष्यति । मोक्षमार्गमुपनेष्यते जगत् यादृशे गुणपथे प्रतिष्ठितः ॥ ९९ ।। एष सर्वगतिदुःखमोचको __ एष सर्वगतिसौख्यदायकः । एष सर्वभवपाशछेदनो भेष्यते भवगतीनिषूदनः ॥ १०० ॥ दृष्टिसंकट विमोचयिष्यति ___ तृष्णजाललत छेदयिष्यति । नन्दिरागमुपशोधयिष्यति भेष्यते तुभवमार्गदर्शकः ॥ १०१ ॥ एष लोकशरणं परायणं एष सर्वजगति प्रभाकरः । नायकत्रिभुवने भविष्यति सर्वतो भवविभावकोविदः ॥ १०२ ॥ क्लेशसुप्तजनताविशोधकः कामपङ्कतरुतारको विदुः । संज्ञसक्तपरिमोचको अयं बन्धमोक्षकरणो भविष्यति ॥ १०३ ॥
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy