________________
- ५४.११८ ]
गण्ड ४९
५४ मैत्रेयः ।
सर्वसत्त्वदुखचक्रच्छेदनं धर्मचक्रतरु वर्तयिष्यसि ॥ १११ ॥
बुद्धवंशमनुधारयिष्यसि धर्मवंश परिशोधयिष्यसि । संघवंश परिकर्षयिष्यसे
रत्नसंभवकरो भविष्यसि ॥ ११२ ॥
तृष्णजाल विनिवर्तयिष्यसे
दृष्टिजालगहनं तथैव च ।
दुःखजाल जगु मोचयिष्यसे
तादृशः प्रणिधिजालु शोधितः ॥ ११३ ॥
सत्त्वधातु परिपाचयिष्यसे
लोकधातु परिशोधयिष्यसि ।
ज्ञानधातुमुत्थापयिष्यसे
आशयस्य तव धातु तादृशः ॥ ११४ ॥
सर्वसत्त्वहितप्रीतिनन्दनो
बोधिसत्त्वकुलवंशनन्दनः ।
सर्वबुद्धप्रणिधाननन्दनो
भेष्यसे सुधन नन्दिवर्धनः ॥ ११५ ॥
सर्वसत्त्वगतिवासदर्शनः
सर्वक्षेत्रप्रतिभासदर्शनः
T: 1
सर्वधर्मअवभासदर्शन
स्त्वं भविष्यसि जिनः सुदर्शनः ॥ ११६ ॥
धर्मधातु अवभासनप्रभः सर्वदुर्गतिशमंकरप्रभः ।
भेष्यसे त्रिभवदुःखशंकरः
* * * * * ॥ ११७ ॥
स्वर्गद्वारमुपदर्शयिष्यसे
बुद्धद्वार विवरिष्यसे जगे ।
मोक्षद्वारमुपनेष्यसे जगत्
द्वारुतादृशु विशोधितं त्वया ॥ ११८ ॥
मिथ्यमार्ग विनिवर्तयिष्यसे
आर्यमार्ग जनतां विनेष्यसि ।
૮૧
5
10
15
20
25
30