SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ५४ मैत्रेयः। ३७९ 8481 एहि मञ्जुशिरिज्ञानपङ्कज एहि मेघशिरितोयवर्धित । एहि सर्वजिनपुत्रप्रेषित दर्शयामि ति अनावृतां दिशम् ॥ ६६ ॥ पश्यथ प्रणिधिजालु कीदृशं धर्मधातुस्फरणं अचिन्तियम् । बोधिसत्त्वचरिमार्गकर्षणं विस्तरन्तु सुधनो इहागतः ॥ ६७ ॥ एषमाणु सुगतान गोचरं मार्गमाणु विरजान चारिकाम् । पृच्छमान प्रणिधानसागरं आगतो अयमखिन्नमानसः ॥ ६८॥ यत्र शिक्षित अतीत नायकाः शिक्षिषेन्ति तथ ये अनागताः। तिष्ठतां च सुगतान या चरी पृच्छमाणु अयु तामिहागतः ॥ ६९ ॥ एति मित्र मम धर्मभाणकाः सर्वधर्मप्रतिपत्तिदेशकाः । बोधिसत्त्वचरिमार्गदेशका एवचित्त अयमागतो इह ॥ ७० ॥ बोधिसत्त्व मम बुद्धिवधिका बुद्धपुत्र मम बोधिदायकाः। एति मित्र मम बुद्धवर्णिता एवचित्तकुशलो इहागतः ॥ ७१ ॥ मातृभूत जनकायिमे मम धात्रिभूत गुणस्तन्यदायकाः । बोधिअङ्गपरिपालकाः सदा एति मित्र अहितान्निवारकाः ॥ ७२ ॥ वैद्यभूत जरमृत्युमोचकाः शक्रभूत अमृताभिवर्षिकाः । चन्द्रभूत शुभपूर्णमण्डलाः सूर्यभूत शिवमार्गदर्शकाः ॥ ७३ ॥
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy