________________
३७८
5
10
15
20
25
30.
गण्डव्यूहसूत्रम् ।
एहि स्वागतु विशुद्ध आशया एहि खागतमखिन्नमानसा ।
एहि खागतमलीनइन्द्रिया
मा किलाम्यसि चरन्तु सूरत ॥ ५८ ॥
सर्वधर्मविचराय उत्थिता
सर्वसत्त्वविनयाय उत्सुका । सर्वमित्र भजनाय प्रस्थिता
स्वागतं ति अचला दृढव्रता
स्वागतं शुभपथेन आगता स्वागतं गुणपये प्रतिष्ठिता ।
स्वागतं जिनपथेन प्रस्थिता
५९ ॥
माश्रमं किल समर्थस्व क्वचित् ॥ ६० ॥
एहि स्वागतु गुणेषु तन्मया
स्वागतं ति कुशलानि (भि) स्यन्दित (?) । साधु खागतमनन्तगोचरा
दर्शनं तव सुदुर्लभं जगे ॥ ६१ ॥
लाभालाभसमतुल्यमानसा निन्ददुःखअयशोविवर्जिता ।
लोकधार्मिकमलोत्पलोपमा
साधु स्वागतमभ्रान्तमानसा ॥ ६२ ॥ मायशाठ्यविगता शुभाशय
मानदर्पविगता सुभाजन ।
क्रोधरोषविगता अनुन्नत
साधु ते दर्शनं सुदर्शनम् ॥ ६३ ॥ एहि सर्वदिशगोचरामुखा एहि सर्वदिशकोशसंभवा । एहि सर्वजिनकोशवर्धना
स्वागतं ति अकिलान्तमानसा ॥ ६४ ॥ एहि स्वागतु त्रियध्वगोचरा
धर्मधातुअधिमुक्तिमण्डला । सर्वबुद्धगुणगर्भसंभवा
स्वागतं ति अकिलान्त सूरत ॥ ६५ ॥
[ ५४.५८