________________
३७७
B 190
5479
-५४.५७]
५४ मैयः । इह ते धर्मखभावं सर्वक्षेत्राध्वकल्पसंबुद्धान् । भावखभावविगतानसंभवनयैर्विचिन्वन्ति ॥ ५० ॥ स्थित्वेह सत्त्वसमतां धर्मेषु वुद्धसमतां च प्रेक्ष्य । त्र्यध्वनि क्षेत्रसमतां प्रणिधानसमतां च प्रविशन्ति ॥ ५१ ॥ विनयन्ति सत्त्वनयुतानन्ये महयन्ति बुद्धनयुतानि । विमृषन्त्यपरे धर्मानिह ते भवनवरे स्थिता धीराः ॥ ५२ ॥ कल्पनयुतैन येषां प्रणिधानज्ञानविपयमतिकल्पाः । शक्या मया हि वक्तुं विस्तीर्णोऽनन्तु वुद्धीनाम् ।। ५३ ॥ तेषामनिन्दितानां अनावरणगोचरं च निरतानाम् । आवासं वन्देऽहं कृतकरणकोशः प्रणतकायः ॥ ५४ ॥ तमपि जिनज्येष्ठसुतं निरावरणचर्यमार्यमैत्रेयम् ।
निरुपमविशुद्धबुद्धिं तदनु स्मृतिमां प्रणिपतामि ॥ ५५ ॥ इति हि सुधनः श्रेष्ठिदारको वैरोचनव्यूहालंकारगर्भमहाकूटागारनिवासिनो बोधिसत्त्वानेवं च अप्रमाणैर्बोधिसत्त्वस्तवैरभिष्टुत्य वन्दित्वा नमस्कृत्य प्रणिपल्य उद्वीक्ष चित्रीकृत्य आमुखीभूय अभिसंपूज्य वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य मूळेऽतिष्ठन्मैत्रेयस्य बोधि- 15 सत्त्वस्य महासत्त्वस्य दर्शनमभिलषमाणो मैत्रेयस्य वोधिसत्त्वस्य समवधानमाकाङ्क्षमाणः । सोऽद्राक्षीन्मैत्रेयं बोधिसत्त्वं बहिर्धा कूटागारस्य अन्यतमस्मात्प्रदेशादागच्छन्तमनेकपाणिशतसहस्रपरिवारमनेकदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्रपुरस्कृतं वामदक्षिणाभ्यां शक्रब्रह्मलोकपालैर्नमस्यमानं जन्मभूमिकैश्च बहुभिर्घातिसंवन्धिभिर्ब्राह्मणशतसहस्रैः परिवृतं पुरस्कृतं वैरोचनव्यूहालंकारगर्भकूटागाराभिमुखमागच्छन्तम् । दृष्ट्वा च तुष्ट उदग्र आत्तमनाः 20 प्रमुदितः प्रीतिसौमनस्यजातो येन मैत्रेयो बोधिसत्त्वस्तेनाभिमुखो भूत्वा दूरत एव मैत्रेयस्य बोधिसत्त्वस्य सर्वशरीरेण प्रणिपतितः ॥
___ अथ खलु मैत्रेयो बोधिसत्त्वः सुधनं श्रेष्ठिदारकं व्यवलोक्य सर्वपर्षदो दक्षिणेन हस्तेनोपदर्य भूतैर्गुणैः संवर्णयन् गाथाभिरध्यभाषत
पश्यथेमु सुविशुद्धआशयं
सूधनं दृढधनान आत्मजम् । एषमाणु वरबोधिचारिका
मागतो मम समीपि पण्डितः ॥५६॥ खागतं ति कृपमैत्रसंभव
खागतं विपुलमैत्रमण्डला। खागतं प्रशमशान्तिलोचन
मा किलाम्यसि चरन्तु चारिकाम् ॥ ५७ ॥
253480
30
गण्ड,४८