________________
8 478
5
10
15
20
25
30
३७६
गण्डव्यूह सूत्रम् ।
sea अनन्तरहिता दृश्यन्ते सर्वसत्त्वभवनेषु । शशिसूर्यमण्डलसमाधि मुक्त संसारपाशेभ्यः || ३५ ॥ इह ते स्थिता जिनसुताः सर्वजिनानां च पादमूलेषु । दृश्यन्ति सर्वक्षेत्रेष्वनन्तकल्पान् क्षपयमाणाः ॥ ३६ ॥ इह ते जगदण्डसमैः सर्वजिनसुताश्रयप्रमाणैश्च । सर्वदिशोऽनवशेषाः स्फरन्ति निर्माणमेवेभिः ॥ ३७ ॥ इह ते प्रविष्ट शूराः सर्वं जिनगोचरं तुलयमाना । विहरन्ति कल्पनयुतान्न चापि तृप्तिं समुपयान्ति ॥ ३८ ॥ इह ते समाधिनयुतानभिलाप्यानि प्रतिक्षणं बुद्ध्या । दर्शन्ति बुद्धविषयं यथा समाधिप्रवेशेन ॥ ३९ ॥ इह ते क्षणावलम्वा कल्पक्षेत्राणि बुद्धनामानि । प्रविशन्ति विपुलबुद्धी कल्पान् क्षपयन्त्यपरिमाणान् ॥ ४० ॥ इह ते स्थिताप्रमेयाकल्पान् प्रविशन्ति एकचित्तेन । परिकल्पसंज्ञविगता जगतः संज्ञावशगतेन ॥ ४१ ॥ इह ते समाधिभवनप्रतिष्ठ पश्यन्ति त्रयोऽध्वानः । एकक्षणकोटिप्राप्ता विमोक्षभवने विचरमाणाः ॥ ४२ ॥ इह ते स्थिता विहारे पर्यङ्कनिषण्णानुच्चलितकायाः । सर्वेषु क्षेत्रेषु युगपदृश्यन्ति सर्वगताः ॥ ४३ ॥ इह विहरन्तो वृषभी धर्मसमुद्रात्पिबन्ति सुगतानाम् । अवतीर्ण ज्ञानसागरमक्षयगुणपारमिताप्राप्ताः ॥ ४४ ॥ इह सर्वक्षेत्र संख्या कल्पानां चैव धर्मसंख्यां च । सर्वजिनानां संख्यां चिन्तेन्ति अनावरणचिन्ती ॥ ४५ ॥ इह ते स्थिता जिनसुता यावत क्षेत्रास्त्रियध्वसंख्याताः । एकक्षणेन तेषां संभवविभवं विचिन्वन्ति ॥ ४६॥ इह ते स्थिता जिनानां चर्यां प्रणिधिं च इन्द्रियं जगताम् । पश्यन्क्ष्यसमतायो जिनसुतभवने विचरमाणाः ॥ ४७ ॥ एकरजाग्रगतान् ये सर्वरजसमाननावरण अस्याम् । पश्यन्ति पर्षसागरक्षेत्रान् सत्त्वानि कल्पांश्च ॥ ४८ ॥ सर्वरजात्रेषु एवं परिषक्षेत्राणि सत्त्वकल्पांश्च । प्रतिभासगतान् सर्वान् सुविभक्तान् संप्रपश्यन्ति ॥ ४९ ॥
.1S संज्ञावा संगवेन.
[ ५४.३५