SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ S477 ५४ मैत्रेयः। ये सर्वक्षेत्रपरमाणुरजान् गणित्वा विन्दुप्रमाण तुलयित्व जलौघ सर्वम् । तावत्प्रमाणप्रणिधीनभिनिहरन्ति । तेषामसङ्गतगतानमयं विहारः ।। २५ ।। प्रणिधानधारणिसमाधिमुखप्रवेशान् ध्याना विमोक्ष प्रणिधानमुखानि चैव । अभिनिर्हरन्ति विचरन्ति अनन्तकल्पान् इह ते प्रविष्ट सुगतान सुताः स्मृतीमाः ॥ २६ ॥ इह ते स्थिता जिनसुता विविधा विचित्रा ___ अभिनिहरन्ति वहुशास्त्रकथार्थयुक्ताः । सौख्यावहानि जगतामिह शिल्पस्थाना न्यनुचिन्तयन्त विहरन्ति सतां विहारः ॥ २७॥ इह ते स्थिता महअभिज्ञउपायज्ञाने यावन्त सत्त्वगतिभेद दशदिशासु । सर्वत्र जन्मच्युतिभेद विदर्शयन्ति मायागते स्थित विमोक्ष असङ्गचर्याः ।। २८ ॥ इह ते स्थिता प्रथमचित्तसमुद्भवाद्यां ___ दर्शन्ति धर्मचर्यां वसुधर्मनिष्ठाम् । आपूर्य निर्मितघनैरपि धर्मधातुम् ___ एवं विकुर्वितशतान्युपदर्शयन्ति ॥ २९ ॥ ये एकचित्तप्रसरेण विबुद्ध बोधिं प्रविशन्ति ज्ञानमतिकर्म अनन्तमध्या । संमोहकेत्वजि लोकु य चिन्तयान __ एवं दुरासदगतानमयं विहारः ॥ ३०॥ एषो असङ्गमतिनामनावरणधर्मधातुचरणानाम् । अनिलम्भगोचराणां विहारु विमलाशयमतीनाम् ॥ ३१ ॥ ये ते असङ्गचारी अनिकेतविहारि सर्वक्षेत्रेषु । अद्वयज्ञानविहारी अयु तेष विहारु असमानाम् ॥ ३२॥ खप्रकृतिसमान् य एते धर्माननालयान् शान्तान् ।, विहरन्ति गगनगोचर तेषयमावासु विरजानाम् ॥ ३३ ।। इह ते कृपाशयमती स्थित्वा जगदीक्ष्य दुःखशोकहतम् । लोकहितचिन्तनपरा विहरन्ति महकरुणलाभी ॥ ३४ ॥ . 30
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy