SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ३७४ [५४.१७ गण्डव्यूहसूत्रम् । ये धर्मधातुगगने शशिसूर्यभूता विचरन्ति सत्त्वभवनप्रतिभासप्राप्ताः । प्रणिधानमण्डल * * * * ज्ञानरश्मी लोकप्रभासकरणानमयं विहारः ॥ १७ ॥ ये एकसत्त्वपरिपाचनताय धीरा | तिष्ठन्ति कल्पनयुतानपरान्तनिष्ठा । यथ एकि सत्त्वि तथ सर्वजगत्यशेषम् आवासु तेषमय लोकपरायणानाम् ॥ १८ ॥ ये एकक्षेत्रप्रसरे अपरान्तकल्पान् विचरन्ति चारिक जगार्थमखिन्नवीर्याः । यथ एकक्षेत्रि तथ सर्वदशदिशासु आवासु तेषमय वज्रदृढाशयानाम् ॥ १९ ॥ ये धर्ममेघ सुगतान दशदिशासु एकासने स्थित पिबन्ति असंप्रमूढाः । अपरान्तकल्पनियुतान्यवितृप्तचित्ता सहबुद्धिसागरसमानमयं विहारः ॥२०॥ ये क्षेत्रसागर व्रजन्ति अनाभिलाप्यान् प्रविशन्ति चो परिषसागर नायकानाम् । ये पूजसागर विचित्र जिने करोन्ति । तेषामसङ्गचरणानमयं विहारः ॥ २१ ॥ ये चार्यसागरप्रविष्टमनन्तमध्यात् प्रणिधानसागर विगाहयमान धीराः। बहुकल्पसागर चरन्ति जगद्धितार्था तेषां विहार अयु सर्वगुणाकराणाम् ॥ २२ ॥ ये एकि वालपथि उत्तरमान क्षेत्रात् बुद्धांश्च सत्त्व तथ कल्प अनन्तमध्यान् । प्रविशन्ति एन्त न पुना च उपेन्ति सीमां तेषामसङ्गनयनानमयं विहारः ॥ २३ ॥ ये एकचित्तक्षणि कल्पमहासमुद्रान्। प्रविशन्ति क्षेत्र तथ बुद्धजगत्प्रचारान् । तेषामनावरणज्ञानमतिस्थितानाम् एषो विहार गुणपारमितोद्गतानाम् ॥ २४ ॥ 8446
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy