SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ B 189 ५४ मैत्रेयः। सर्व निकेतविगता अनिकेतचारी तेषामनिश्रितमतीनमयं विहारः ॥९॥ ये दृष्टिदुर्गतिगतां जनतामखिन्नां दुःखान्तरां कटुक वेदन वेदयन्तीम् । मैत्रप्रभाय शमयन्ति अपाय सर्वान् । आवासु तेषमय मैत्रकृपाशयानाम् ॥ १० ॥ संसारसंकटगतार्यपथप्रनष्टं ___ जात्यन्धसार्थमिव दैशिकविग्रहीणम् । ये प्रेक्ष्य लोकमिह मोक्षपथे प्रणेन्ति सातिवाहसदृशानमयं विहारः ॥ ११ ॥ ये जातिशोकजरमृत्युवशोपनीतं दृष्ट्वा जगन्नमुचिस्कन्धवपाशबद्धम् । संप्रापयत्यभयक्षेमदिशं विमोच्य शूराण तेषमयमा(वा)सु सुदुर्जयानाम् ॥ १२ ॥ क्केशातुरं जनमिमं व्यवलोकयित्वा समुदानयन्त्यमृतज्ञानमहौषधानि । परिमोचयन्ति विपुलां करुणां जनित्वा ___ महवैद्यराजसदृशानमयं विहारः ॥ १३ ॥ ये ते निशाम्य जनतां दुखितामत्राणां शोकाकरे पतित मृत्युसमुद्रगामि । तारेन्ति कृत्व महतीं शुभधर्मनावं तेषां विहारमय दाशसुतोपमानाम् ॥ १४ ॥ ये क्लेशसागरचरां जनतां निशाम्य सर्वज्ञचित्तरतनाशयशुद्धसत्त्वा । अभ्युद्धरन्ति भवसागरमोतरित्वा कैवर्तपुत्रसदृशानमयं विहारः ॥ १५ ॥ प्रणिधानआलयगता कृपमैत्र्यदृष्ट्या ये सर्वसत्त्वभवनान्यवलोकयित्वा । अभ्युद्धरन्ति जनतां भवसागरस्थां गरुडेन्द्रपोतसदृशानमयं विहारः ।। १६ ॥ 15 S16 लोकपथे.
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy