________________
३८०
[५४.७४.
गण्डव्यूहसूत्रम् । मेरुभूत सम मित्रशत्रुषु __ सागरोपम अक्षोभ्यचेतसः । कर्णधारपरिपालकोपमा
एवचिन्ति सुधनो इहागतः ॥ ७४ ॥ शूरभूत अभयप्रदायकाः
सार्थवाह शरणं परायणम् । नायका मम सुखंददा इमे ___एवचित्त अयु मित्र सेवते ॥ ७५ ॥ सर्वधर्मदिशसुदर्शकाः सदा
सर्वबुद्धगुणज्ञानदर्शकाः। सर्वदुर्गतिअपायशोधका
एति मित्र मम साधु दर्शकाः ॥ ७६ ॥ एति सर्वजिनकोशदायका
एति सर्वजिनगञ्जरक्षकाः । एति सर्वजिनगुह्यधारका
एव मित्र भजतेष पण्डितः ॥ ७७ ॥ ज्ञानसंपद अतो विशुध्यते
रूपभोगकुलजन्मसंपदः । * * * * अतो न दुर्लभा
एवमाशय अयमिहागतः ॥ ७८ ॥ पश्यथा अयमुदारआशयः
सेवमान इम मित्र पण्डितः । यादृशीं प्रतिजनेति सूरत
एव यूयमनुशिक्षथो सदा ।। ७९॥ एष पूर्वशुभपुण्यहेतुना
दृष्टमञ्जुशिरि बोधिप्रस्थितः । अनुशास्ति अयु तस्य कुर्वतो
पश्यथा कथमटल्यखेदवान् ॥ ८०॥ एष सर्वसुखसौख्य उज्झिय
उत्सृजित्व अमरोपमं गृहम् । धात्रिमातृपितृभोगविस्तरं
दासभूत इम मित्र सेवते ॥ ८१ ॥
20