________________
S389
३०२ गण्डव्यूहसूत्रम्।
[४३.१उत्पद्यन्ते जिना लोके कदाचि ज्ञानभास्कराः। संबोधौ चित्तमुत्पाद्य सर्वसत्त्वानुकम्पया ॥ १॥ बहुभिः कल्पनयुतैः दुर्लभं तच्च दर्शनम् । अविद्यान्धस्य लोकस्य ज्ञानसूर्यो महानसि ॥२॥ दृष्ट्वा लोकं विपर्यस्तमज्ञानतिमिरावृतम् । महाकृपां संजनय्य प्रस्थितोऽसि स्वयंभुताम् ॥ ३ ॥ विशुद्धेनाशयेन त्वं बुद्धवोध्यर्थमुद्यतः । कल्याणमित्रं भजसेऽनपेक्षः कायजीविते ॥ ४ ॥ न निश्रयस्ते लोकेऽस्मिन्न निकेतो न संस्तवः । अनालयोऽस्य संकीर्णो निःसङ्ग गगनाशयः ॥ ५॥ वोधिचर्या चरस्यग्रां पुण्यमण्डलसुप्रभः । उदयास्तमिते लोके ज्ञानरश्मिप्रमुञ्चनः ॥ ६ ॥ लोकान्न चैवोच्चलसि लोकधर्मेन लिप्यसे । असङ्गश्चरसे लोके मारुतो गगने यथा ॥ ७ ॥ कल्पोद्दाहे यथा वह्निः प्रदीप्तः सततोद्यतः । अग्निकल्पेन वीर्येण चरसे बोधिचारिकाम् ॥ ८॥ सिंहकल्प महावीर दृढवीर्यपराक्रमः । ज्ञानविक्रमसंपन्नस्त्वं चरस्यपराजितः ॥९॥ धर्मधातुसमुद्रेऽस्मिन् ये केचिन्नयसागराः ।
सन्मित्रसेवया शूर त्वं तानवतरिष्यसे ॥ १० ॥ अथ खल्वशोकश्रीर्बोधिसत्त्वसंगीतिप्रासाददेवता सुधनं श्रेष्ठिदारकमाभिर्गाथाभिरभिष्टुत्य गच्छन्तं पृष्ठतः समनुबध्नाति स्म धर्मकामतया । अथ खलु सुधनः श्रेष्ठिदारको धर्मधातुप्रतिभासप्रभवोधिसत्त्वसंगीतिप्रासादमुपसंक्रम्य अनुप्रविश्य समन्तादनुविलोकयामास
गोपायाः शाक्यकन्याया दर्शनकामः । सोऽपश्यद्गोपां शाक्यकन्यां धर्मधातुप्रतिभासप्रभस्य 25 बोधिसत्त्वसंगीतिप्रासादस्य मध्ये सर्वबोधिसत्त्वस्य गृहावसनप्रतिभासमणिपद्मगर्भासननिषण्णां स्त्रीणां चतुरशीत्या सहस्त्रैः परिवृतां सर्वासां पार्थिवकुलसंभवानां पूर्वबोधिसत्त्वचर्यासभागकुशलमूलानां पूर्वदानसंग्रहसंगृहीतानां श्लक्ष्णमधुरवचनसमुदाचाराणां सर्वज्ञतार्थाभिमुखसुखसंगृहीतानां बुद्धबोधिसत्त्वसमुदागमसमानार्थतया सुसंगृहीतानां महाकरुणापूर्वगमपुत्रदारपरिग्रहसुसंपरिगृहीतानां महामैत्र्युपेतखदारानुवर्तनपरिशोधितानां पूर्वबोधिसत्त्वाचिन्यो30 पायकौशल्यपरिपरिपाचितानाम् । सर्वाणि च तानि चतुरशीतिस्त्रीसहस्राण्यवैवर्तिकान्यनुत्तरायां सम्यक्संबोधौ बोधिसत्त्वपारमितानयावतीर्णानि सर्वबोधिसत्त्वशिक्षासु अपरप्रणेयाणि सर्वग्रहविगतचितानि सर्वसंसाररतिविरतमानसानि असङ्गधर्मधातुनयपरिशुद्धानि सर्वज्ञताभिमुख