________________
B156
-४३.१०]
४३ गोपा। चित्तवेगानि सर्वनिवरणावरणजालविगतानि सर्वाङ्गपथसमतिक्रान्तानि धर्मकायसुनिर्मितविचाराणि सर्वलोकपरिपाकविनयाभिमुखानि विपुलपुण्यसनुद्रसंभूतचित्तानि समन्तभद्रबोधिसत्त्व- 5390 चर्याप्रणिधाननिर्यातानि विपुलबोधिसत्त्ववलवेगसंवर्धितानि ज्ञानसूर्यमण्डलचित्तप्रदीपानि ।।
अथ खलु सुधनः श्रेष्ठिदारको येन गोपा शाक्यकन्या तेनोपसंक्रम्य गोपायाः शाक्यकन्यायाः क्रमतलयोः सर्वशरीरेण प्रणिपत्य उत्थाय पुरतः प्राञ्जलिः स्थित्वा एवमाह- 5 मया आर्ये अनुत्तरायां सम्यक्संवोधौ चित्तमुत्पादितम् । न च जानामि कथं बोधिसत्त्वाः संसारे संसरन्ति, संसारदोषैश्च न लिप्यन्ते । सर्वधर्मसमतास्वभावं चावबुध्यन्ते । श्रावकप्रत्येकबुद्धभूमौ न च प्रतिष्ठन्ते । बुद्धधर्मावभासप्रतिलब्धाश्च भवन्ति । बोधिसत्त्वचाँ न च व्यवच्छिन्दन्ति । बोधिसत्त्वभूमौ च प्रतिष्ठिता भवन्ति । सर्वतथागतविषयं च संदर्शयन्ति । सर्वलोकगतिसमतिक्रान्ताश्च भवन्ति । सर्वलोकगसिषु चोपविचरन्ति । 10 धर्मकायपरिनिष्पन्नाश्च भवन्ति । अनन्तवर्णांश्च रूपकायानभिनिर्हरन्ति । अलक्षणधर्मकायपरायणाश्च भवन्ति । सर्वजगद्वर्णसंस्थानांश्च कायानादर्शयन्ति । अनभिलाप्यांश्च सर्वधर्मानवरन्ति । सर्ववाक्पथनिरुक्त्युदाहारैश्च सत्त्वानां धर्मं देशयन्ति । निःसत्त्वांश्च सर्वधर्मान् प्रजानन्ति । सत्त्वधातुविनयप्रयोगाच्च न विनिवर्तन्ते । अनुत्पादानिरोधांश्च सर्वधर्मानवतरन्ति । सर्वतथागतपूजोपस्थानप्रयोगाच्च न विनिवर्तन्ते । अकर्मविपाकांश्च सर्वधर्मा- 15 नवतरन्ति । कुशलकर्माभिसंस्कारप्रयोगाच्च न विनिवर्तन्ते ॥
एवमुक्ते गोपा शाक्यकन्या सुधनं श्रेष्ठिदारकमेतदवोचत्-साधु साधु कुलपुत्र, यस्त्वं बोधिसत्त्वानामिमामेवंरूपां चर्यां धर्मतां परिप्रष्टव्यां मन्यसे, यथापि तत्समन्तभद्रप्रणिधानचर्याभिमुखस्य अयं प्रश्नोदाहारः । तेन हि कुलपुत्र शृणु, साधु च मुष्ठु च मनसि कुरु, भाषिष्ये बुद्धानुभावेन । दशभिः कुलपुत्र धर्मैः समन्वागता बोधिसत्त्वा 20 इमामेवंरूपामिन्द्रजालतलोपमां समन्तज्ञानप्रभा बोधिसत्त्वचर्यां परिपूरयन्ति । कतमैर्दशभिः ? यदुत उदारकल्याणमित्रसंनिश्रयेण विपुलाधिमुक्तिप्रतिलाभेन उदारकल्याणाशयविशुद्ध्या 5391 विपुलपुण्यज्ञानसमुद्रोपस्तब्धचित्ततया बुद्धोत्पत्तिसंभवमहाधर्मनिर्देशश्रवणप्रतिलाभेन त्र्यध्वतथागताधिमुक्तिचेतनासंवासेन सर्वबोधिसत्त्वचर्यामण्डलसमतानुगमेन सर्वतथागताधिष्ठानप्रतिलाभेन प्रकृतिमहाकरुणाध्याशयविशुद्ध्या सर्वसंसारचक्रोपच्छेदचित्तबलाधानप्रतिलाभेन । 25 एमिः कुलपुत्र दशभिर्धर्मः समन्वागता इमामेवंरूपामिन्द्रजालतलोपमां समन्तज्ञानप्रभा बोधिसत्त्वचयां परिपूरयन्ति ॥
तत्र कुलपुत्र अविव_वीर्या बोधिसत्त्वा एतान् धर्मान् प्रतिलभ्य अक्षयाकाराभिनिर्हारेण भावयन्तो बहुलीकुर्वन्तः कल्याणमित्राण्याराग्य दशभिराकारैरभिराधयन्ति । कतमैर्दशभिः ? यदुत कायजीवितानपेक्षतया संसारोपकरणार्थिकतया सर्वधर्मखभावसमता- 30 नुगमेन सर्वज्ञताप्रणिधानाविवर्त्यतया सर्वधर्मधातुनयव्यवलोकनतया सर्वभवसमुद्रोच्चलितमानसतया अनालयधर्मगगनप्रविष्टानालयतया सर्वबोधिसत्त्वप्रणिधानानावरणतया सर्वक्षेत्र