________________
9 987
-४३.०] ४३ गोपा।
३०१ प्रीतिसौमनस्यजातः । न खलु पुनर्देवते वोधिसत्त्वा आत्मार्थाय सर्वज्ञतामभिप्रार्थयन्ते । न विचित्रसंसाररतिसुखप्रभवनाथ न कामधातुपर्यापन्नं विविधरतिव्यूहप्रार्थनया संज्ञाचित्तदृष्टिविपर्यासवशेन न संयोजनवन्धनानुशयपर्यवस्थानवशगताः । न तृष्णादृष्टिवशगताः, न विविधसत्त्वसंसर्गरतिसंज्ञाविनिवद्धचेतसः, न ध्यानरतिसुखावादपरिगृद्धाः, न विविधावरणावृताः संसारगतिषु परिवर्तन्ते । अपि तु खलु पुनर्देवते बोधिसत्त्वा भवसमुद्रगतानामपरिमित- 5 दुःखप्रपीडितानां सत्त्वानामन्तिके महाकरुणां संजनयित्वा सर्वजगत्संग्रहमहाप्रणिधिमभिनिर्हरन्ति । ते महाकरुणाप्रणिध्यभिनिहरिवलवेगेन सत्त्वपरिपाकविनयप्रयुक्ताः संसारे बोधिसत्वचयाँ चरन्तः संदृश्यन्ते । ते सर्वसत्त्वनां सर्वावरणसर्वज्ञताज्ञानं पर्येपमाणाः सर्वतथागतपूजोपस्थानप्रणिधिमभिनिहरन्ति । ते तथागतपूजोपस्थानप्रणिधिवशैर्न परिखिद्यन्ते बोधिसत्त्वचर्यायाम् । ते बोधिसत्त्वचयाँ चरन्तः संक्लिष्टानि क्षेत्राणि संपश्यन्तः सर्वबुद्धक्षेत्रपरि-10 शोधनप्रणिधिमभिनिहरन्ति संक्लिष्टान् क्षेत्रसागरान् परिशोधयमानाः सर्वसत्त्वानामायतननानात्वं संपश्यमानाः। अनानात्वानुत्तरधर्मकायपरिशुद्धये प्रणिधिमभिनिहरन्ति संक्लिष्टकायवाक्चित्ततां सत्त्वानां संपश्यमानाः । सर्वसत्त्वकायवाक्चित्तालंकारपरिशुद्धये प्रणिधिमभिनिर्हरन्ति । विकलायतनानपरिशुद्धचेतसः सर्वान् संपश्यमानाः सर्वसत्त्वचित्तचरितानि परिशोधयमाना बोधिसत्त्वचर्यां चरन्तो न परिखिद्यन्ते । एवं 15 हि देवते बोधिसत्त्वा अनन्तमध्यां बोधिसत्त्वचर्या चरन्तोऽपरिखिन्नचित्ताः । एवं चरन्तोऽलंकारभूता भवन्ति सदेवकस्य लोकस्य देवमनुष्यसंपत्तिसंजननतया । मातापितृभूता भवन्ति बोधिसत्त्वोत्पादप्रतिष्ठापनतया । धात्रीभूता भवन्ति बोधिसत्त्वमार्गावतरणतया । नित्यानुबद्धसहजदेवता भवन्ति दुर्गतिप्रपातभयारक्षणतया । महादाशभूता भवन्ति संसारसमुद्रोत्तारणतया। शरणभूता भवन्ति सर्वमारक्लेशभयविनिवर्तनतया। परायण-20 भूता भवन्ति अन्तपरमशीतिभावोपनयनतया । तीर्थभूता भवन्ति सर्वबुद्धसमुद्रावतरणया। संग्राहकभूता भवन्ति धर्मरत्नद्वीपोपनयनतया । पुप्पभूता भवन्ति सर्वबुद्धगुणसंपुष्पितचित्ततया । अलंकारभूता भवन्ति विपुलपुण्यज्ञानप्रभाप्रमुञ्चनतया । परमप्रीतिकरा भवन्ति समन्तप्रासादिकतया । अभिगमनीया भवन्ति अनवद्यकर्मप्रतिपत्त्या । समन्तभद्रा भवन्ति सर्वाकारवराङ्गसुपरिपूर्णकायतया । असेचनकरूपा भवन्ति अप्रतिकूलदर्शनतया । अव- 25 भासकरा भवन्ति ज्ञानरश्मिप्रमुञ्चनतया । आलोककरा भवन्ति धर्मप्रदीपधारणतया । प्रद्योतकरा भवन्ति बोध्याशयपरिशोधनतया । सेनापतिभूता भवन्ति मारकर्मविनिवर्तनतया। सूर्यभूता भवन्ति प्रज्ञारश्मिजालप्रभाप्रमुञ्चनतया । चन्द्रभूता भवन्ति गगनबुद्धिचन्द्रोदागमनतया । मेघभूता भवन्ति सर्वजगन्महाधर्ममेघाभिप्रवर्षणतया । एवं खलु देवते प्रतिपद्यमाना बोधिसत्त्वाः प्रिया भवन्ति सर्वसत्त्वानाम् ॥
अथ खलु अशोकश्रीर्बोधिसत्त्वसंगीतिप्रासाददेवता साधं तैर्दशभिः गृहदेवतासहस्रः सुधनं श्रेष्ठिदारकं दिव्यसमतिक्रान्तैः मनोमयैः पुष्पमाल्यगन्धचूर्णविलेपनरत्नाभरणवर्षेः प्रवृष्य अनुपरिवार्य बोधिसत्त्वभवनं प्रविशन्तमाभिर्गाथामिरभ्यष्टावीत्
१% संसाररतिषु.
B155
3388
30