________________
8380
४३ गोपा। अथ खल्ल सुधनः श्रेष्ठिदारकः सुतेजोमण्डलरतिश्रियो लुम्बिनीवनदेवताया अन्तिकादपक्रम्य येन कपिलवस्तु महानगरं तेनोपसंक्रम्य एतमेवाप्रमेयकल्पसर्वारम्बणबोधिसत्त्वजन्मविकुर्वितसंदर्शनं बोधिसत्त्वविमोक्षं भावयन् अवतरन् विपुलीकुर्वन् अनुतिष्ठन् उत्तापयन् 5 परिजयन् परिचिन्तयन् प्रविचिन्वन् अनुपूर्वेण येन धर्मधातुप्रतिभासप्रभो बोधिसत्त्वसंगीतिप्रासादस्तेनोपसंक्रामत् । तस्योपसंक्रमणस्य अशोकश्री म बोधिसत्त्वसंगीतिप्रासाददेवता दशभिर्गृहदेवतासहस्रः सार्धं प्रत्युद्गम्य सुधनं श्रेष्ठिदारकमेवमाह-वागतं ते महापुरुष महाप्रज्ञाज्ञानविक्रामिन् अचिन्त्यबोधिसत्त्वविमोक्षभावनाध्यालम्वनप्रणिधिचित्तविपुलधर्म
विमानगोचरचारिन् धर्मनगराभिमुख अनन्तबोधिसत्त्वोपायनयावतारणाप्रतिप्रस्रब्धतथागत10 गुणसागरावभासप्रतिलब्ध सर्वजगद्विनयप्रतिभासप्रतिभानज्ञानाभिमुखसर्वसत्त्वचर्याज्ञानकाय
मन्त्रानुवर्तन चर्याभिमुखचित्त सर्वजगद्वेदनाशीतिसमुद्रवेगविवर्धनप्रणिधान सर्वतथागतधर्मप्रतिवेधमार्गप्रतिपन्न । यथा त्वां पश्यामि अनिमिषनेत्रगम्भीरचर्ये-पथविशुद्धगोचरम् , नचिरेण त्वमनुत्तरतथागतकायवाक्चित्तालंकारविशुद्धि प्रतिलब्धो लक्षणानुव्यञ्जनप्रतिमण्डितेन
कायेन दशवलज्ञानालोकालंकृतेन चित्तेन लोकं विचरिष्यसि । यादृशीं च ते दृढवीर्य15 पराक्रमतां पश्यामि, नचिरेण त्वं सर्वत्र्यध्वतथागतसंमुखीभावदर्शनसमझी सर्वतथागतधर्ममेघान् संप्रतीच्छन् सर्ववोधिसत्त्वध्यानविमोक्षसमाधिसमापत्तिान्तधर्मविमानरतिमनुभवन् गम्भीरं बुद्धविमोक्षमनुप्रवेक्ष्यसि । तथा हि वं कल्याणमित्रोपसंक्रमणदर्शनपर्युपासनानुशासनीः संप्रतीच्छंस्तद्गुणप्रतिनयेषु प्रयुज्यमानो न परिखिद्यसे, न विनिवर्तसे, न परितपसि । न च ते कश्चिदन्तरायो वा आवरणं वा निवरणं वा प्रसहते, मारा वा मारकायिका वा 20 देवताः । तेन अचिरादेव वं सर्वसत्त्वानां प्रीतिकरो भविष्यसि ॥
एवमुक्ते. सुधनः श्रेष्ठिदारकोऽशोकश्रियं बोधिसत्त्वसंगीतिप्रासाददेवतामेतदवोचत्तथास्तु देवते यथा वदसि । अहं खलु देवते सर्वसत्त्वक्लेशसंतापव्युपशमेन परमां प्रीति विन्दामि । सर्वसत्त्वविषयकर्मविपाकविनिवर्तनेन सर्वसत्त्वसुखसंभवेन सर्वसत्त्वानवद्यकर्मप्रति
पत्त्या परमां प्रीतिं विन्दामि । यदा च देवते सत्त्वा विविधविषयकर्मक्लेशप्रयोगाक्षिप्तचित्ता 25 दुर्गतिषु प्रपतन्ति सुगतिषु वा, विविधानि कायिकचैतसिकानि दुःखदौर्मनस्यानि प्रत्यनु
भवन्ति, दुर्मनसस्तस्मिन् समये बोधिसत्त्वा भवन्ति परमदुर्मनसः । तद्यथापि नाम देवते पुरुषस्यैकान्तवृष्णाचरितस्य एकपुत्रको भवेत् प्रियो मनापः । स तस्याङ्गप्रत्यङ्गेषु च्छिद्यमानेषु एकान्ततृष्णाचरितत्वात् परमदुर्मनाः स्यादनात्तमनस्कः, एवमेव देवते बोधिसत्त्वो बोधिसत्त्वचारिकां चरन् सत्त्वान् कर्मक्लेशवशेन तिसृषु दुर्गतिषु पतितान् दृष्ट्वा दुर्मना भवति 30 परमदुर्मनाः । यस्मिन् वा पुनः समये सत्त्वाः कायवाङ्मनःसुचरितसमादानहेतोः कायस्य भेदात्सुगतौ वर्गलोके देवेषुपपद्यन्ते, देवमनुष्यगतिषु च कायिकचैतसिकानि सुखानि प्रत्यनुभवन्ति, परमसुखी तस्मिन् समये बोधिसत्त्वो भवति सुमना आत्तमनस्कः प्रमुदितः