SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २२९ -४२.२०] ४२ सुतेजोमण्डलरतिश्रीः। क्षेत्रकोटिपरमाणुसादृशा नेकचित्तक्षणे वीर पश्यमि । दर्शयन्त जगतामनेकधा एकि क्षणि शान्तनिवृतिम् ॥ १७ ॥ जन्म यातुक जिनान पश्यमि प्रेक्षमाण रजि क्षेत्रसागरान् । जन्मि जन्मि वहुकायकोटिभिः पूजि तेष करुणामुपागमि ॥ १८ ॥ क्षेत्रसागरनयैरचिन्तनै__ रक्षया गतिप्रचार यातुकाः। तेषु सर्वजगदामुखा अहं धर्ममेघ विपुलान् प्रवर्पमि ॥ १९ ॥ एतमहं जिनसुता अचिन्तियं जानमी वरविमोक्षमण्डलम् । कल्पकोटिनयुतैरचिन्तियै यं न शक्य अयु सर्व दर्शितुम् ॥ २० ॥ एतमहं कुलपुत्र अप्रमेयकल्पसर्वारम्वणबोधिसत्त्वजन्मविकुर्वितसंदर्शनं बोधिसत्त्वविमोक्षं जानामि । किं मया शक्यं बोधिसत्त्वानां चित्तक्षणे चित्तक्षणे सर्वकल्पप्रस्थानगर्भसंभूतचित्तानां सर्वधर्मनयनिध्यप्तिजातिनिदर्शकानां सर्वतथागतपूजाप्रणिधिसंभूता- शयानां सर्वबुद्धधर्माभिसंबोधिप्रणिधिपरमाणां सर्वकुलगोत्रोपपत्तिगतिसंदर्शनप्रतिभासकल्पानां 20 सर्वतथागतपादमूलपद्मगर्भोपपत्तीनां सर्वजगत्परिपाककालाभिज्ञानां सर्वविनयाभिमुखजन्मोपपत्तिविकुर्वितसंदर्शकानां सर्वक्षेत्रप्रसरविकुर्वितमेघसंदर्शकानां सर्वजगद्गतिजातिकुलप्रतिभासप्राप्तानां चयां ज्ञातुं गुणान् वा वक्तुम् ॥ गच्छ कुलपुत्र, इयमिहैव कपिलवस्तुनि महानगरे गोपा नाम शाक्यकन्या प्रतिवसति । तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वपरिपाकाय संसारे 25 संसरितव्यम् ॥ अथ खलु सुधनः श्रेष्ठिदारकः सुतेजोमण्डलरतिश्रियो लुम्बिनीवनदेवतायाः पादौ शिरसाभिवन्ध सुतेजोमण्डलरतिश्रियं लुम्बिनीवनदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सुतेजोमण्डलरतिश्रियो लुम्बिनीवनदेवताया अन्तिकाव्सक्रान्तः ॥ ४०॥ 5 385 B 154 -000500
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy