________________
[४२.९
8384
गण्डन्यूहसूत्रम्। सत्त्वदुःखितविमोचनाय च
प्रोदितः प्रणिधिसागरो मम ॥९॥ श्रुत्व धर्ममथ तस्य तायिनो
लब्धिमं वरविमोक्षमण्डलम् । बोधि शोधितु चरित्व चारिकां
कल्पक्षेत्ररजकोटिसादृशान् ॥ १० ॥ येषु यान्तकुपपन्न नायका
ते अशेष मयि सर्वि पूजिताः। शासनं च मय तेषु धारितं
शोधना इमु विमोक्षसागरम् ॥ ११ ॥ क्षेत्रकोटिपरमाणुभिः समा
येऽभवन् दशबला अतीतकाः। धर्मचक्रु मय तेष धारितं
भावितं [वर ]विमोक्षमण्डलम् ॥ १२ ॥ बुद्धक्षेत्रि रज यावतो इहो
तान् रजाग्रप्रसराब्धि पश्यती। एकमेकि रजि क्षेत्रसागरान्
पूर्व शोधित जिनेन पश्यती ॥ १३ ॥ तेषु क्षेत्रप्रसरेषु नायकान्
जायतो वनवरेषु पश्यमि। एकचित्तप्रसरे अचिन्तिया
दर्शयन्त विपुला विकुर्विता ॥ १४॥ पश्यमि कचि च क्षेत्रि नायकान्
प्रार्थयन्त वरबोधिमुत्तमाम् । तिष्ठतं तुषितलोक * * *
क्षेत्रकोटिनयुतैरचिन्तियैः ॥ १५॥ जायमान विपुलैर्विकुर्वितैः
क्षेत्रसागरशतेषु पश्यमि। नारिसंघवर संपुरस्कृता
भाषमाणु धर्म नायकान् ॥ १६ ॥
15
१8 lacuna for विमोक्ष° supplied from B. Rs lacuna for वर supplied from B.