________________
- ४२.१०]
४२ सुतेजोमण्डलरतिश्रीः ।
२९५
रजोन्तर्गतेषु बुद्धक्षेत्रेष्वेकैकस्मिन् बुद्धक्षेत्रे सर्वाणि बोधिसत्त्व जन्मविकुर्वितान्यवतरामि, न च पर्यन्तमुपैमि । सर्वपरमाणुरजःसु एकैकस्मिन् परमाणुरजसि बुद्धक्षेत्रपरंपराणां न च पर्यन्तमुपैमि सर्वक्षेत्रेष्वेकैकस्मिन् बुद्धक्षेत्रे बुद्धसत्त्वजन्मपरंपराणाम् । यथा चेह लोकधातौ सर्वाणि वोधिसत्त्वजन्म विकुर्वितान्यवतरामि, तथा दशसु दिक्षु अनन्तमध्यासु लोकधातुषु सर्वपरमाणुरजःसु प्रतिचित्तक्षणमेकैकेन चित्तप्रवेशेन सर्वाकाराणि सर्वबोधिसत्त्वजन्म- 5 विकुर्वितान्यवतराम्यप्रतिप्रस्रब्ध्यधिष्ठानयोगेन ||
एवमुक्ते सुधनः श्रेष्ठिदारकः सुतेजोमण्डलरतिश्रियं लुम्बिनीवनदेवतामेवमाह - . कियच्चिरप्रतिलब्धस्त्वयायं देवते अप्रमेयकल्पसर्वारम्वणबोधिसत्त्वजन्म विकुर्वितं संदर्शयमानो बोधिसत्त्व जन्मविमोक्षः ? आह - भूतपूर्वं कुलपुत्र अतीतेऽध्वनि बुद्धक्षेत्रकोटी परमाणुरजः समानां कल्पानां परेण परतरमीश्वरगुणापराजितध्वजो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि 10 विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान् समन्तरत्नायां लोकधातौ समापद्यते कल्पेऽशीतिबुद्धकोटीनियुतशतसहस्रप्रभवे । तस्यां खलु कुलपुत्र समन्तरत्नायां लोकधातौ विचित्रव्यूहप्रभा नाम मध्यमा चातुर्द्वीपिकाभूत् । तस्यां खलु चातुर्द्वीपिकायां मध्ये जम्बुद्वीपस्य मेरुविशुद्धव्यूहध्वजा नाम राजधान्यभूत् । तस्यां खलु राजधान्यां रत्नार्चिनेत्रप्रभो नाम राजा अभूत् । राज्ञः खलु कुलपुत्र 15 रत्नार्चिनेत्रप्रभस्य राज्ञः सुहर्षितप्रभेश्वरा नाम भार्याभूत् । तद्यथापि नाम कुलपुत्र अस्यां भागवत्यां चातुर्द्वीपिकायामिह जम्बुद्वीपे मायादेवी भगवतो वैरोचनस्य जनेत्री, एवमेव कुलपुत्र तेन कालेन तेन समयेन तस्यां विचित्रव्यूहप्रभायां चातुर्द्वीपिकायां जम्बुद्वीपे सुहर्षितप्रभेश्वरा नाम तस्य भगवत ईश्वरगुणापराजितध्वजस्य तथागतस्य माता अभूत् । यथा तेषामशीतिबुद्धकोटीनियुतानां पूर्वंगमस्य प्राथमकल्पिकस्य भगवत ईश्वरगुणापराजित - 20 ध्वजस्य तथागतस्य माता अभूत् । सा खलु कुलपुत्र सुहर्षितप्रभेश्वरा देवी वोधिसत्त्वस्य जन्मकालसमये विंशत्या स्त्रीनियुतशतसहस्रैः सार्धं सुवर्णपुष्पाभमण्डलं नाम महोद्यानं निर्ययौ, यत्र तमीश्वरगुणापराजितध्वजं कुमारं जनयामास अचिन्त्येन बोधिसत्त्व - विकुर्वितेन । तेन खलु पुनः समयेन सुवर्णपुष्पाभमण्डलस्य नाम महोद्यानस्य मध्ये शुभरत्नविचित्रकूटं नाम कूटागारमभूत् । तस्मिन् कूटागारे सर्वकामंददवृक्षशाखा - 25 मध्यालम्बतया सुहर्षितप्रभेश्वराया देव्याः स भगवानीश्वरगुणापराजितध्वजस्तथागतो जनितः । तेन खलु समयेन तस्य भगवतो जन्मकाले विमलसंभवप्रभा नाम धात्री प्रत्युपस्थिताभूत् । जातमात्रं च बोधिसत्त्वं लोकेन्द्रा विचित्रसुरभिमनोज्ञदिव्यपुष्पोत्करोद्वारिभिः परमसुरभिगन्धोदककलशैर्विस्नाप्य तदर्हाभिश्च अचिन्त्या संख्येयाभिरुत्तमाभिः पूजाभिरभिपूज्य तस्या विमलसंभवप्रभाया धात्र्या अङ्के प्रायच्छन् । परिगृहीतमात्रे च 30 तस्मिन् बोधिसत्त्वे तया धात्र्या उभाभ्यां पाणिभ्यामंसे च, तत्क्षणमेव सा धात्री महाप्रीतिप्रामोद्यवेगप्रतिलब्धा समन्तचक्षुर्विषयं नाम बोधिसत्त्वसमाधिं प्रत्यलभत, यस्य समाधेः
$ 381