________________
8 379
S380
B 152
गण्डव्यूहसूत्रम् ।
[ ४२.१०
पुनरपरं कुलपुत्र मायाया देव्याः कुक्षेः प्रथमतरं दशबुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमाणुरजः समा बोधिसत्त्वा भगवतो वैरोचनस्य सदृशरूपवर्णसंस्थानाः सदृशलक्षणानुव्यञ्जनालंकाराः सदृशप्रभाः सदृशरश्मिप्रमुश्चनाः सदृशलिङ्गलीलाः सदृशविक्रमाः सदृशविरोचनविकुर्विताः सदृशपरिवाराः सदृशव्यूहा निश्चरन्ति स्म भगवतो 5 वर्णसमुद्रानुदीरयमाणाः । इदं कुलपुत्र लुम्बिनीवने वोधिसत्त्वस्य नवमं जन्मविकुर्वितम् ॥
पुनरपरं कुलपुत्र वोधिसत्वस्य जन्मकालसमये प्रवृत्ते मायाया देव्याः पुरस्तादधो वज्रतलान्महापृथिवीमभिनिर्भिद्य सर्वरत्नव्यूहगर्भ नाम महामणिरत्नपद्ममभ्युद्गतमभूदपराजितमहावज्रमणिराजगर्भसर्वमणिराजकेसररश्मिव्यूहं दशबुद्धक्षेत्रपरमाणुरजःसमपत्रपङ्क्तिसुविभक्तं विविधमणिराजपत्रमण्डलं चिन्तामणिराजविशुद्धकर्णिकं सर्वरत्नवर्णाप्रमेयकेसरपङ्कि10 व्यूहम्, असंख्येयमणिराजरत्नव्यूहजालसंछन्नमभेद्यनारायणवज्रमणिराजेन्द्रकूटसंछादितं सर्वदेवेन्द्रकायपरिवृतं सर्वनागेन्द्रगन्धमेघाभिप्रवर्षितं दिव्यपुष्पपाणिपुटप्रयुक्त सर्वयक्षेन्द्रपरिवृतं सर्वगन्धर्वेन्द्रपूर्ववुद्धोत्पादस्थान मधुररुतसंगीतिनिर्घोषसंप्रयुक्तस्तुतिमेघाविष्कृतं हितमानमददर्पसर्वासुरेन्द्रप्रणतशरीरनमस्कृतं सर्वगरुडेन्द्राभिप्रलम्वितरत्नपट्टगगन मेघालंकारवोधिसत्त्वगणसंचोदनसंगीतिसंप्रयुक्तैः प्रीतिमनोभिः सर्वकिन्नरेन्द्रः संप्रेक्षितं सर्वमहोरगेन्द्रप्रीतिसंभव15 प्रयुक्तनयरुचिरनिर्घोषव्यूहमेघाभिप्रवर्षितम् । इदं कुलपुत्र लुम्विनीवने बोधिसत्त्वस्य दशमं जन्मविकुर्वितम् ॥
इमानि कुलपुत्र लुम्बिनीवने बोधिसत्त्वस्य दश जन्मविकुर्वितानि प्रादुरभूवन् । ततः पश्चाद्बोधिसत्त्वोऽचिन्त्याप्रमाणप्रभासेचनकदर्शनो मायाया देव्याः कुक्षेरभ्युद्गतः सूर्यमण्डल - मिव गगनतलात्, विद्युत्कलाप इव मेघसंघातात्, सांध्य इव महाघनः शैलशिखरान्तरात्, 20 महाप्रदीप इव तमोऽन्धकारात् । इत्येवं बोधिसत्त्वो मायाया देव्याः कुक्षेरभिनिष्क्रमणं संदर्शयामास मायागतरूपविज्ञप्ति संदर्शन धर्मतया अनागतधर्मतया अनुत्पादानिरोधलोकविज्ञप्तिसंदर्शनधर्मतया ॥
२९४
इत्येवमहं कुलपुत्र भगवतो वैरोचनस्य जन्मविकुर्वितसमुद्रानवतरामि इह लुम्बिनीविरमाणा । यथा चाहं कुलपुत्र अस्यां भागवत्यां चातुर्द्वीपिकायां भगवतो वैरोचनस्य 25 जन्मविकुर्वितसमुद्रानवतरामि, तथा सर्वावत्यां त्रिसाहस्रमहा साहस्रायां लोकधातौ सर्वचातुद्वीपिकासु कोटीशतजम्बुद्वीपानां सर्वत्र भगवतो वैरोचनस्य जन्मविकुर्वितान्यवतरामि । यथा चाहं कुलपुत्र अस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ सर्व चातुद्वपिकासु कोटीशतजम्बुद्वीपानां भगवतो वैरोचनस्य कोटीशतं जन्मविकुर्वितानामवतरामि, एवं सर्वत्रिसाहस्रमहासाहस्रलोकधातुपर्यापनपरमाणुरजोन्तर्गतेषु सर्वबुद्धक्षेत्र परमाणुरजःप्रवेशज्ञानानुगतेषु 80 प्रतिचित्तक्षणमेकैकेन चित्तप्रवेशेन बुद्धक्षेत्रपरमाणुरजः समानि भगवतो वैरोचनस्य जन्मविकुर्वितान्यवतरामि । तदनन्तरेण चित्तेन बुद्धक्षेत्रसहस्रपरमाणुरजोन्तर्गतेषु बुद्धक्षेत्रेषु एकैकत्र बुद्धतत्समान्येव बोधिसत्त्व जन्मविकुर्वितान्यवतरामि । एतेन नयेन बुद्धक्षेत्रपरमाणु