SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ 8378 -४२.१०] ४२ सुतेजोमण्डलरतिश्रीः। २९३ बुद्धक्षेत्रेषु बोधिसत्त्वचारिकामचरन् , ते सर्वे बुद्धक्षेत्रप्रसरा मायाया देव्याः सर्वरोममुखेभ्यः संदृश्यन्ते स्म । यावद्भिश्च कार्भगवान् पूर्व बोधिसत्त्वचारिकामकार्षीदविव_स्थानप्राप्तः, यैराकारैर्विहारैर्यैः परिभोगैर्यैः सुखदुःखप्रतिसंवेदीभिर्येषु जातिपरिवर्तेषु, तत्सर्वमेकैकस्मिन् रोमविवरे संदृश्यते स्म । सर्वेषु च तेषु तासु तासूपपत्तिषु मायादेवी बोधिसत्त्वस्य जननी बभूव । सर्वे च ते बोधिसत्त्वकाया मायाया देव्या रोमविवरेषु विकुर्वितप्रतिभासप्राप्ताः । संदृश्यन्ते स्म । इदं कुलपुत्र बोधिसत्त्वस्य लुम्बिनीवने चतुर्थं जन्मविकुर्वितम् ॥ पुनरपरं कुलपुत्र यावद्भिः कार्यभगवान् पूर्व बोधिसत्त्वचारिकामचरत् यद्वर्गयत्संस्थानैर्यदाकारैर्यत्परिभोगैर्यत्सुखदुःखप्रतिसंवेदीभिर्यजातिपरिवतैः, ते सर्वे मायाया देव्याः काये सर्वरोममुखेषु प्रतिभासप्राप्ताः संदृश्यन्ते स्म । इदं कुलपुत्र लुम्बिनीवने बोधिसत्त्वस्य पञ्चमं जन्मविकुर्वितम् ॥ 10 पुनरपरं कुलपुत्र यावन्तो भगवता पूर्व बोधिसत्त्वचारिकां चरता दुष्करपरित्यागाः परित्यक्ताः, हस्तपादपरित्यागा वा कर्णनासापरित्यागा वा जिह्वादंष्ट्रापरित्यागा वा नयनोत्तमाङ्गपरित्यागा वा मांसशोणितपरित्यागा वा अस्थिमज्जापरित्यागा वा वक्षोहृदयपरित्यागा वा छविचमेपरित्यागा वा बाह्याध्यात्मिकवस्तुपरित्यागा वा पुत्रदुहितृभायोपरित्यागा वा । आत्मभावपरित्यांगा वा भोगरत्नपरित्यागा वा ग्रामनगरनिगमजनपदराष्ट्रराजधानीपरित्यागा 15 वा धनधान्यकोशकोष्ठागारपरित्यागा वा मणिमुक्तावैडूर्यशङ्खशिलाप्रवालजातरूपरजतपरित्यागा वा विविधरनाभरणपरित्यागा वा शय्यासनपरित्यागा वा गृहविमानपरित्यागा वा सर्वोपभोगपरित्यागा वा, ते च दायकबोधिसत्त्वविग्रहकायै रूपैः परित्यजन्ति स्म । ते च प्रतिग्राहकायै रूपैः प्रतिगृह्णन्ति स्म । तानि च देशवस्तूनि यानि परित्यक्तानि, ते च देशप्रदेशाः, ते च बोधिसत्त्वपरिवाराः, सर्वे ते मायाया देव्याः सर्वरोमविवरेभ्यः प्रतिभास- 20 प्राप्ताः संदृश्यन्ते स्म । इदं कुलपुत्र लुम्विनीवने बोधिसत्त्वस्य षष्ठं जन्मविकुर्वितम् ॥ पुनरपरं कुलपुत्र......................"लुम्बिनीवनषण्डे समवसृता अभिजातजगद्विज्ञाना प्रादुरभवत् । इदं कुलपुत्र लुम्बिनीवने बोधिसत्त्वस्य सप्तमं जन्मविकुर्वितम् ॥ पुनरपरं कुलपुत्र यावन्तः सर्वदेवेन्द्रभवनव्यूहपरिमोगसमतिक्रान्ताः सर्वनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्येन्द्रभवनव्यूहपरिभोगसमतिक्रान्ताः सर्वबोधिसत्त्वपरिभोगाः, 25 यदुत सर्वमणिराजकूटागारपरिभोगा वा मणिराजविमानपरिभोगा वा मणिराजजालपरिभोगा वा मणिराजविग्रहपरिभोगा वा मणिराजबिम्बपरिभोगा वा मणिराजव्यूहा वा सर्वाभरणपरिभोगा वा सर्वगन्धराजपरिभोगा वा शुभाप्रतिकूलसर्वारम्बणपरिभोगा वा, ते सर्वे मायाया देव्याः कुक्षेरन्योन्यासंभिन्ना निश्चरित्वा इह लुम्बिनीवने समन्तव्यूहाः समवास्थिषन्त । इदं कुलपुत्र लुम्बिनीवने बोधिसत्त्वस्याष्टमं जन्मविकुर्वितम् ।। 9 Lacuna in B and S.
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy