________________
8376
२९२ गण्डब्यूहसूत्रम् ।
[४२.१०तत्र कुलपुत्र मायाया देव्याः प्लक्षद्रुमनिलयगतायाः संनिपतितानां सर्वलोकेन्द्राणां सर्वकामधातुकानां च देवपुत्राणां साप्सरोगणदेवकन्यापरिवाराणां संनिपतितानां सर्वेषां च रूपावचराणां देवपुत्राणां निरामगन्धानां सर्वेषां च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाणां सपरिवाराणां संनिपतितानां बोधिसत्त्वपूजासंप्रयुक्तानां मायादेव्यास्तेजसा श्रिया 5 वर्णेन रूपेण सर्वपूजाव्यूहाः कायाश्चावभासिता बभूवुः, अस्यां च त्रिसाहस्रमहासाहस्रायां लोकधातौ याः प्रभाः, ता अपि सर्वा ग्रस्ताश्चाभिभूताश्चाभूवन् । सर्वरोमविवरविसृताश्च मायादेव्याः प्रभावभासास्तदन्याभिः प्रभाभिरनुपहता अनावृता अप्रव्याहृता असङ्गाः सर्वदिशः स्फरित्वा सर्वाणि नैरयिकाणि दुःखानि सर्वाणि तैर्यग्योनिकानि दुःखानि सर्वाणि च यामलौकिकानि दुःखानि सर्वभवगतिपर्यापन्नानां च सत्त्वानां सर्वदुःखानि 10 संक्केशांश्च प्रशमयित्वा तिष्ठन्ति भासन्ते तपन्ति विरोचन्ते स्म । इदं कुलपुत्र वोधिसत्त्वस्य लुम्बिनीवने प्रथमं जन्मविकुर्वितम् ॥
पुनरपरं कुलपुत्र यस्मिन् समये मायाया देव्याः कुक्षौ सर्वावतीयं त्रिसाहस्रमहासाहस्रा लोकधातुरन्तर्गता प्रतिभासप्राप्ता संदृश्यते स्म, तस्यां च त्रिसाहस्रमहासाहस्रायां लोकधातौ कोटीशतचातुर्दीपिकानां लोकधातूनां सर्वे जम्बुद्वीपेषु नानानामधेयासु 15 राजधानीषु नानानामधेयेषु वनषण्डेषु नानावृक्षमूलेषु मायादेवी उपगता एवमेव संदृश्यते स्म
सर्वलोकेन्द्रपरिवृता बोधिसत्त्वजन्मप्रत्युपस्थाना अचिन्त्येन बोधिसत्त्वजननीज्ञान विकुर्वितेन । इदं कुलपुत्र बोधिसत्त्वस्य लुम्विनीवने द्वितीयं जन्मविकुर्वितम् ॥
पुनरपरं कुलपुत्र मायाया देव्याः सर्वरोमविवरेभ्य एकैकस्माद्रोममुखाद्यावन्तो भगवता पूर्व बोधिसत्त्वचयाँ चरता तथागता आरागिताः सत्कृता गुरुकृता मानिता पूजिताः, 20 ते सर्वे संदृश्यन्ते स्म । यश्च तैस्तथागतैर्धर्मो देशितः, स सर्वस्तेभ्यो रोमविवरेभ्यो बुद्धखरा
ङ्गसंप्रयुक्तो निखिलेन श्रूयते स्म । तद्यथापि नाम वारिराशे रजसि वा कनकपरमाणुरजसि वा आदर्शमण्डले वा खच्छे सुप्रसन्ने वा उदके गगनमण्डलमादित्यचन्द्रज्योतिग्रहगणप्रतिमण्डितं गम्भीरमेघपटलनिगर्जितनि?षप्रतिभासप्राप्तं संदृश्यते स्म, एवमेव कुलपुत्र
मायाया देव्याः सर्वरोममुखमण्डलेषु पूर्वतथागतविकुर्वितानि संदृश्यन्ते स्म सर्वधर्मदेशना
26 निर्घोषाणि । इदं कुलपुत्र बोधिसत्त्वस्य लुम्बिनीवने तृतीयं जन्मविकुर्वितम् ॥ S7 . पुनरपरं कुलपुत्र मायाया देव्याः सर्वकायात्सर्वरोममुखमण्डलेभ्य एकैकस्माद्रोम
विवराद्यावत्सु सर्वक्षेत्रेषु यावत्सु लोकधातुसमुद्रेषु यावत्सु लोकधातुवंशेषु यावत्सु लोकधातुसंज्ञागतेषु भगवान् बोधिसत्त्वचारिकामकार्षीत् । यत्प्रतिष्ठानेषु क्षेत्रेषु यत्संस्थानेषु यद्यहेषु
यच्छरीरेषु यत्पर्वतालंकारेषु यद्बामनगरनिगमजनपदपट्टनालंकारेषु यदुद्याननदीहदतडाग30 सागरालंकारेषु यद्गगनमेघालंकारेषु यत्सत्त्वनिलयेषु यद्याननिर्देशेषु यत्कल्पनामसंख्यासु
यद्बुद्धोत्पादप्रभवेषु यद्विशुद्धिपरमेषु यथायुःप्रमाणसत्त्वेषु यथालोकजन्मोपपत्तिषु यथासत्त्वसमवधानेषु यथाकल्याणमित्रसंनिश्रयेषु यथाकुशलधर्मप्रयोगेषु यथाधर्मप्रतिपत्यभियोगेषु