________________
-४२.१०]
४२ सुतेजोमण्डलरतिश्रीः । रभूत् । पुनः सर्वस्मिन्निह लुम्बिनीवने सर्ववृक्षेषु महामणिरत्नकोशा अभिनिर्वृत्ताः । इदं पष्टं पूर्वनिमित्तं प्रादुरभूत् । पुनः सर्वस्मिन्निह लुम्विनीवने सर्वनलिनीषु सर्वाणि जलजरत्नपुप्पाण शुङ्गीभूतानि धरणितलादभ्युद्गम्य वारिसमुद्गतानि समवास्थिषन्त । इदं सप्तमं पूर्वनिमित्तं प्रादुरभूत् । पुनर्यावन्त इह लोकधातौ कामावचरा रूपावचराश्च देवपुत्रा नागयक्षगन्धबीसुरगरुडकिन्नरमहोरगा लोकेन्द्रजगदिन्द्रा वा, तेऽप्यस्मिन् लुम्विनीवने सर्वे कृताञ्जलिपुटाः । स्थिता अभूवन् । इदमष्टमं पूर्वनिमित्तं प्रादुरभूत् । पुनर्यावन्त इह चातुर्दीपिकायां लोकधातौ देवकन्या वा नागकन्या वा यक्षगन्धर्वासुरगरुडकिनरमहोरगकन्या बा, ताः सर्वाः प्रमुदितमानसाः सर्वपूजाविधिपरिगृहीतहस्ताः प्लक्षशाखाभिमुखाः प्रणतकायाः स्थिता अभूवन् । इदं नवमं पूर्वनिमित्तं प्रादुरभूत् । पुनर्दशभ्यो दिग्भ्यः सर्वतथागतानां नाभिमण्डलेभ्यो निश्चरमाणा बोधिसत्त्वजन्मविकुर्वितप्रदीपा नाम रश्मयो निश्चरित्वा सर्वमिदं 10 लुम्बिनीवनमवभास्य तिष्ठन्ति स्म । तेषु च सर्वरश्मिमुखमण्डलेषु तेषां सर्वतथागतान जन्मविकुर्वितानि प्रतिभासप्राप्तानि संदृश्यन्ते स्म । संप्रसवविकुर्विताः सर्वबोधिसत्त्वगुणाश्च बुद्धखरसंप्रयुक्तास्तेभ्यो रश्मिमुखमण्डलेभ्यो निश्चरमाणाः श्रूयन्ते स्म । इदं दशमं पूर्वनिमित्तं प्रादुरभूत् । इमानि दश पूर्वनिमित्तानि प्रादुर्भूतानि बोधिसत्त्वजन्मकालसमये प्रत्युपस्थिते, येषां प्रादुर्भावाद्वितर्कमभवत् सर्वलोकेन्द्राणां बोधिसत्त्वो जनिष्यत इति । सा खलु पुनन्हं 15 कुलपुत्र एषां दशानां पूर्वनिमित्तानां दर्शनादचिन्त्यं प्रीतिवेगं प्रतिलभे ॥
पुनरपरं कुलपुत्र मायादेव्याः कपिलवस्तुनो महानगरान्निष्क्रमन्त्या इह लुम्विनीवने 5873 दश महावभासपूर्वनिमित्तानि प्रादुरभूवन् , येषां प्रादुर्भावादप्रमेयाणां सत्त्वानां सर्वज्ञताधर्मालोकप्रीतिवेगा विवर्धिताः । कतमे दश ? यदुत-वरणीतलगतेषु सर्वरत्नकूटागारगर्भप्ववभासः प्रादुर्भूतः। सर्वगन्धकुसुममुकुलेष्ववभासः प्रादुर्भूतः । अशेषरत्नपद्ममुर्कुलेपु विकसमाने 20 सर्वपत्रेभ्योऽवभासः प्रादुर्भूतः, मधुरश्च सुजातजातशब्द एभ्यो निश्चरति स्म । यश्च दशसु दिक्षु बोधिसत्त्वानां प्रथमचित्तोत्पादावभासः, स इदं लुम्बिनीवनमवभास्य अभ्युदितः। यच्च दशसु दिक्षु बोधिसत्त्वानां सर्वबोधिसत्त्वभूम्याक्रमणावभासविकुर्वितम् , तदिह लुम्बिनीवने प्रादुरभूत् । यश्च दशसु दिक्षु बोधिसत्त्वानां सर्वपारमितापरिनिष्पत्तिज्ञानाधिगमालोकावभासः, स इह लुम्बिनीवने प्रादुर्बभूव । यश्च दशसु दिक्षु बोधिसत्त्वानां सर्वप्रणिधानवशिताज्ञाना- 25 लोकावभासः, स इह लुम्बिनीवने प्रादुर्बभूव । यश्च दशसु दिक्षु सर्वबोधिसत्त्वानां परिपाकविनयज्ञानालोकावभासः, स इह लुम्बिनीवने प्रादुर्बभूव । यश्च दशसु दिक्षु सर्वबोधिसत्त्वानां धर्मधातुनयज्ञानाधिगमालोकावभासः, स इह लुम्बिनीवने प्रादुर्बभूव । यश्च दशसु दिक्षु सर्वबोधिसत्त्वानां बुद्धविकुर्वितजन्माभिनिष्क्रमणबोधिविबुध्यनज्ञानाधिगमालोकावभासः, स इह लुम्बिनीवने प्रादुर्बभूव । इमानि दश महावभासनिमित्तानि प्रादुर्बभूवुः, 30 यैरनन्तमध्यानां बोधिसत्त्वानां चित्ताशयगहनान्धकाराण्यवभासितानि ॥
१B विदितमभवत्. २ S °मुकुटेषु.
835
B 160