________________
२१०
गण्डव्यूहसूत्रम् ।
[४२.७
8373
निःशेषबुद्धबलतानुगमप्रविष्टा ___ जन्माथ सप्तममचिन्त्यमिदं बुधानाम् ॥ ७ ॥ ये ज्ञानसागरनये वशितानुयाताः
सर्वज्ञतानयमुखं व्यवचारयन्ति । सर्व समाधिनयसागर ओतरन्ति
जन्माष्टमं मतमिदं तथताश्रयाणाम् ॥ ८॥ ये धर्मक्षेत्रप्रसरान् परिशोधयन्ति
ये सर्वसत्त्वपरिपाकनयप्रयुक्ताः । बौद्धा विकुर्वितवियूह विदर्शयन्ति
तेषामिदं नवमु जन्म महाशयानाम् ॥९॥ ये ते यथाबल जिनान तथा प्रविष्टाः
सर्वज्ञताविपुलवेगविवर्धमानाः। ये धर्मधातुतलभेदनयेष्वसङ्गा
स्तेषामिदं दशमु जन्म जिनौरसानाम् ॥ १० ॥ 15 एभिः कुलपुत्र बोधिसत्त्वो दशभिर्जन्मभिस्तथागतकुले जात एवमालोककरो भवति
सर्वसत्त्वानाम् । अपि तु खलु पुनः कुलपुत्र अहमप्रमेयकल्पसर्वारम्बणबोधिसत्त्वजन्मविकुर्वितसंदर्शनस्य बोधिसत्त्वविमोक्षस्य लाभिनी। आह-क एतस्य देवते अप्रमेयकल्पसर्वारम्बणबोधिसत्त्वजन्मविकुर्वितसंदर्शनस्य बोधिसत्त्वविमोक्षस्य विषयः? आह-अहं
कुलपुत्र सर्वबोधिसत्त्वजन्मसंदर्शनोपसंक्रमणप्रणिधानपरिनिष्पन्ना । सा खल्वहं कुलपुत्र 20 भगवतो वैरोचनस्य विपुलं जन्मसमुद्रमवतरामि । यदुत अस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ बोधिसत्त्वजन्म अवतरमाणा भागवत्यां चातुर्कीपिकायामिह जम्बुद्वीपे लुम्बिनीवने बोधिसत्त्वजन्मसंदर्शने पूर्वप्रणिधानोपपन्ना। सा अहमिह बोधिसत्त्वजन्मानुस्मृति भावयमाना विहरामि । तस्या ममेह विहरन्या वर्षशतेन भगवांस्तुषितभवनाच्यविष्यतीति ॥
अथास्मिन् लुम्बिनीवने दश पूर्वनिमित्तानि प्रादुर्बभूवुः । कतमानि दश ? यदुत25 सर्वमिदं लुम्बिनीवनं समं संस्थितमपगतनिम्नोन्नतविषममपगतश्वभ्रप्रपातम् । इदं प्रथम पूर्वनिमित्तं प्रादुरभूत् । पुनः सर्वमिदं लुम्बिनीवनमुत्सन्नशर्करकठल्लमपगतस्थाणुकण्टकं वज्रपृथिवीतलसंस्थानमनेकरत्नाभिकीर्ण समवस्थितम् । इदं द्वितीयं पूर्वनिमित्तं प्रादुरभूत् । पुनः सर्वमिदं लुम्बिनीवनं सर्वरत्नद्रुमशालतालपतिसुविभक्तालंकारं समवास्थिषत ।
इदं तृतीयं पूर्वनिमित्तं प्रादुरभूत् । पुनः सर्वमिदं लुम्बिनीवनं दिव्यसमतिक्रान्तगन्धाङ्करप्ररूढ़ 30 सर्वचूर्णकोशसंभूतं सर्वध्वजमेघपटलमण्डलजातं गन्धमणिविग्रहवृक्षमूलपरिसंस्थापितालंकार
समवास्थिषत । इदं चतुर्थं पूर्वनिमित्तं प्रादुरभूत् । पुनः सर्वमिदं लुम्बिनीवनं विविधदिव्यपुष्पमाल्याभरणकोशनिवृत्तसालंकारपरिपूर्ण समवास्थिषत । इदं पञ्चमं पूर्वनिमित्तं प्रादु
874