________________
S 382
B 153
S 383
गण्डव्यूहसूत्रम् ।
[ ४२.१०सहप्रतिलाभात्तस्माद्दशसु दिक्षु नानालोकधातुस्थिता अप्रमेयास्तथागताश्चक्षुष आभासमगमन् । एष च अप्रमेयकल्प सर्वारम्वणबोधिसत्त्व जन्मविकुर्वितसंदर्शनो बोधिसत्त्वविमोक्षो - ऽवक्रान्तः सुसूक्ष्मः, तद्यथापि नाम तद्दिवसावक्रान्ते मातुः कुक्षौ गर्भविज्ञानम्, यस्य विमोक्षस्य प्रतिलम्भादनया सर्वतथागतजन्म विकुर्वितसंदर्शनमहाप्रणिधिरभिनिर्हृतः ॥
5
२९६
तत्किं मन्यसे कुलपुत्र - अन्या सा तेन कालेन तेन समयेन विमलसंभवप्रभा नाम बोधिसत्त्वधात्र्यभूत् ? न खलु पुनस्त्वया एवं द्रष्टव्यम् । अहं सा तेन कालेन तेन सम विमलसंभवप्रभा नाम बोधिसत्त्वधात्र्यभूवम् । तत्किं मन्यसे कुलपुत्र - अन्यानि तेन कालेन तेन समयेन विंशतिस्त्रीनियुतशतसहस्राण्यभूवन् ? न खल्वेवं द्रष्टव्यम् । इमानि तानि विंशतिदेवतानियुतशतसहस्राणि, यानीह लुम्बिनीवने प्रतिवसन्ति मम परिवाराः । तत्किं मन्यसे 10 कुलपुत्र-अन्या सा तेन कालेन तेन समयेन सुप्रहर्षितप्रमेश्वरा नाम देव्यभूदीश्वरगुणापराजितध्वजस्य कुमारस्य जनेत्री ? न खल्वेवं द्रष्टव्यम् । इयं सा मायादेवी तेन कालेन तेन समयेन प्रहर्षितप्रमेश्वरा नाम देव्यभूत् । तत्किं मन्यसे कुलपुत्र - अन्यः स तेन कालेन तेन समयेन रत्नार्चिनेत्रप्रभो नाम राजा अभूत् । न खल्वेवं द्रष्टव्यम् । अयं स राजा शुद्धोदनः तेन कालेन तेन समयेन रत्नार्चिनेत्रप्रभो नाम राजा अभूत् । सा खल्वहं 15 कुलपुत्र तत उपादाय सर्वचित्तक्षणेष्वविरहिता अभूवं भगवतो वैरोचनस्य बोधिसत्त्व जन्मविकुर्वितसागरावतरणतया सत्त्वनयवृषभिताविकुर्वितसागरावतरणतया ॥
यथा चाहं कुलपुत्र अस्यां सहायां लोकधातौ भगवतो वैरोचनस्य महाप्रणिधान - समुद्रसागरसंभवानां तथागतानां सर्वचित्तक्षणेषु सर्वपरमाणुरजः प्रवेशसमवसृतेन ज्ञानचक्षुषा सर्वपरमाणुरजःसु क्षेत्रसमुद्रानवतरामि, तेषु च क्षेत्रेषु तथागतोत्पादसागरान वतरामि । 20 यथा तेषां तथागतानां बोधिसत्त्वजन्मविकुर्वित महासमुद्रानवतरामि, तथा दशसु दिक्षु अनन्तमध्यानां तथागतानां सर्वचित्तक्षणेषु बोधिसत्त्वजन्मविकुर्वितसागरानवतरामि । यथा च अस्यां त्रिसाहस्रमहा साहस्रायां लोकधातौ सर्वपरमाणुरजः प्रसरपरंपरावतारेण सम्यक्संबुद्धबोधिसत्त्वजन्माभिमुखीभावगतान् बुद्धगुणानवतरामि, एवं दशसु दिक्षु बुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमाणुरजः प्रसरान्तर्गतान् क्षेत्रसागरानवतरामि । तेषु च 25 विपुलान् बुद्धसमुद्रानवतरामि । तांश्च बुद्धान् भगवतो बोधिसत्त्वभूतजन्मविकुर्वितसंमुखीभावगतान् पश्यामि । तथागतभूतानपि पूजयामि । तेषां च तथागतानां धर्मदेशनां शृणोमि, धर्मस्य च अनुधर्मं प्रतिपद्ये ॥
अथ खलु सुतेजोमण्डलरतिश्रीलुम्बिनीवनदेवता एवमेवाप्रमेयसर्वकल्प सर्वावरणबोधिसत्त्वजन्मविकुर्वितसंदर्शनबोधिसत्त्वविमोक्षं परिदीपयमाना बुद्धाधिष्ठानेन दश दिशो 30 व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत -
बुद्धपुत्र शृणु मा भाषितं
यस्मि पृच्छसि जनित्व गौरवम् ।