SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ B145 B 145 5 362 -४१.१५] ४१ सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा । २७९ च तथागतमुपसंक्रामन्त्या अनन्तमध्यः सत्त्वधातुरनुत्तरायां सम्यक्संबोधौं परिपाचितः । एकैकं च तथागतमुपसंक्रामन्त्या नानासमाधिमुखानि प्रतिलब्धानि । नानाधारणीमुखानि नानाभिनिहारनया नानाप्रतिसंविन्नयाभिनिहारा नानासर्वज्ञतानयानुगमा नानाधर्मालोकमुखप्रतिलाभनया नानाज्ञाननयानुगमविचारा नानादिक्समुद्रप्रवेशावभासा नानाक्षेत्रसमुद्रावतारप्रवेशावभासा नानातथागतदर्शनसमुद्रविज्ञप्त्यवभासाः प्रतिलब्धाः, अवक्रान्ता विशुद्धाः । संवर्धिताः प्रसृताः प्रतिसृताः । यथा च तत्र सुरश्मिकल्पे तथागता आरागिताः, तथा सर्वत्र लोकधातुसमुद्रपरमाणुरजःसमेषु कल्पेषु ये केचित्तथागता उपपद्यन्ते, येऽपि तदन्येभ्यो लोकधातुभ्य आगत्य तथागता धर्म देशयामासुः, तेषां मया सर्वेषां तथागतानामन्तिकाद्धर्मदेशना श्रुता, श्रुत्वा च संधारिता । सर्वे च मया ते तथागता आरागिता अभिराधिताः। तेषां च मे बुद्धानां भगवतां शासनं संधारितम् । सर्वेषां च मे तैपां तथागतानामन्तिकादेष 10 सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवो वोधिसत्त्वविमोक्षः प्रतिलब्धो नानाप्रतिलाभनयनानाविमोक्षनयमुखैः ॥ ___ अथ खलु सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा रात्रिदेवता तस्यां वेलायामेतं विमोक्षनयं परिदीपयन्ती संदर्शयमाना सुवनं श्रेष्ठिदारकं गाथाभिरध्यभाषत अचिन्त्यमेतं परमं विमोक्षं मां पृच्छसि त्वं खलु यत्प्रतीतः । विनिर्दिशत्याः सुगतानुभावा च्छृणुष्व तन्मे निखिलं यथावत् ॥ १२ ॥ कल्पाननन्तान् विपुलानचिन्त्यान् क्षेत्रार्णवांश्चाप्रतिमानसंख्यान् । सर्वानतिक्रम्य बभूव रम्या रत्नप्रभा या खलु लोकधातुः ॥ १३ ॥ तस्यामभूत्सुप्रभनामधेयः कल्पोऽमितानां प्रभवो जिनानाम् । आरागितास्ते खलु मे मुनीन्द्रा विमोक्षमेतं परिभावयन्त्या ॥ १४ ॥ यस्यां रतिव्यूहसनामिकाभू विस्तीर्णचित्रा वरराजधानी । सुविशुद्धचित्ता विषमप्रयोगाः सत्त्वा हि यस्यामभवंस्तदानीम् ॥ १५॥ जयप्रभोऽस्यां नृपतिर्बभूव धर्मेण यस्ताननुशास्ति सत्त्वान् ।
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy