SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २७८ 8360 गण्डव्यूहसूत्रम् । श्चयवत उपपद्यमानान् हीनान् प्रणीतान् सुगतान् दुर्गतान् सुवर्णान् दुर्वर्णान् यथाकामोपगतान् । तेषां च सत्त्वानां च्युत्युपपत्तीरवतरति स्म । चित्तपरिवर्तान् चित्तचरितानि चिन्तानन्तर्यतामाशयनानात्वमिन्द्रियसागरानपि प्रयोगप्रसरानपि कर्मावसानमपि परिपाकविनयकालमपि अवतरति स्म ॥ 6 स खल पुनः कुलपुत्र विजितावी राजकुमारस्ततश्चयुत्वा तत्रै जम्बुद्वीपे रतिव्यूहायां राजधान्यां तस्मिन्नेव राजकुले उपपद्य चक्रवर्तिराज्यैश्वर्यं प्रत्यलभत । तेन चक्रवर्तिराजभूतेन तस्य भगवतो धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्य तथागतस्य परिनिर्वृतस्यानन्तरं धर्मगगनाभ्युद्गतश्रीराजो नाम तथागत आरागितः । तस्यानन्तरं तत्रैव बोधिमण्डे शक्रभूतेन देवेन्द्रगर्भो नाम तथागत आरागितः । तस्यानन्तरं तत्रैव लोकधातौ सुयामदेवराजभूतेन 10 धरणीश्रीपर्वततेजो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव लोकधातौ संतुषितदेव राजभूतेन धर्मचक्रप्रभनिर्घोषराजो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव लोकधातौ सुनिर्मितदेवराजभूतेन गगनकान्तराजो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव लोकधातौ वशवर्तिदेवराजभूतेनानवमर्दबलकेतुर्नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव लोकधातावसुरेन्द्रभूतेन सर्वधर्मनिगर्जितराजो नाम तथागत आरागितः। 18 तस्यानन्तरं तस्मिन्नेव लोकधातौ ब्रह्मेन्द्रभूतेन धर्मचक्रनिर्माणसमन्तप्रतिभासनिर्घोषो नाम तथागत आरागितः । इति हि कुलपुत्र एतांस्तथागतान् प्रमुखान् कृत्वा तस्यामेव रत्नप्रभायां लोकधातौ तस्मिन्नेव सुप्रभे कल्पे दश बुद्धसहस्राण्युदपद्यन्त । सर्वे च ते तथागता विजिताविना राजकुमारेणारागिताः । तस्य खल्लु पुनः कुलपुत्र सुप्रभस्य महाकल्पस्यानन्तरं सुरश्मि म कल्पोऽभूत् । तस्मिंश्च सुरश्मिकल्पे दश बुद्धसहस्राण्युपपद्यन्त । अहं च 20 तस्मिन् कल्पे महामतिर्नाम राजा अभूवम् । तेन मे राजभूतेन लक्षणश्रीपर्वतो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे गृहपतिभूतेन संवृतस्कन्धो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे अमात्यभूतेन विमलवत्सो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पेऽसुरेन्द्रभूतेन वेशधारी नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे वृक्षदेवताभूतेन लक्षणसुमेरुर्नाम तथागत आरागितः । तस्या5 361_25 नन्तरं तस्मिन्नेव कल्पे सार्थवाहभूतेन विमलबाहुर्नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे नगरदेवताभूतेन सिंहविक्रान्तगामी नाम तथागत आरागितः। तस्यानन्तरं तस्मिन्नेव कल्पे वैश्रवणभूतेन देवेन्द्रचूडो नाम तथागत आरागितः । तस्यानन्तरं तस्मिन्नेव कल्पे गन्धर्वराजभूतेन धर्मोद्गतकीर्तिर्नाम तथागत आरागितः। तस्यानन्तरं तस्मिन्नेव कल्पे कुम्भाण्डेन्द्रभूतेन अवभासमकुटी नाम तथागत आरागितः ॥ 30 इति हि कुलपुत्र मयैतान् दश तथागतान् प्रमुखान् कृत्वा तत्र सुरश्मिकल्पे षष्टिर्बुद्धकोट्य आरागिताः। नानोपपत्तिकायिकया सर्वे च मे तथागताः पूजिताः । एकैकं १B वेगधारी. -
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy