________________
-४१.११] ४१ सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा।
२७७ करुणासिंहो नाम तथागत उत्पत्स्यते । चतुर्थः सर्वलोकहितैषी नाम तथागत उत्पत्त्यते । यावत्सर्वपश्चिमो वैद्यराजो नाम तथागत उत्पत्स्यते ॥
तत्किं मन्यसे कुलपुत्र-अन्ये ते तेन कालेन तेन समयेन अपराधिनः पुरुषा राजकिल्बिषकारिणोऽभूवन् ये ते मया वध्यघातवशगताः स्वकायजीवितं परित्यज्य ततो बन्धनात् परिमोक्षिताः ? न खल्वेवं द्रष्टव्यम् । इमे ते ऋकुच्छन्दपूर्वगमा भद्रकल्पिका- 3 स्तथागताः । तदन्यानि च दश बोधिसत्त्वासंख्येयशतसहस्राणि यैर्भगवतोऽनन्तबलविघुष्टनिर्नादितश्रीसंभवमतेस्तथागतस्य दर्शनेन अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् , यान्येतर्हि दशसु दिक्षु बोधिचर्यां चरन्ति । इमे च सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवं वोधिसत्त्वविमोक्षं भावयन्ति विपुलीकुर्वन्ति ॥
तत्किं मन्यसे कुलपुत्र-अन्यः स तेन कालेन तेन समयेन जयप्रभो नाम राजा 10 5 359 अभूत् ? न खल्वेवं द्रष्टव्यम् । सत्यकः स महावादी तेन कालेन तेन समयेन जयप्रभो नाम राजा अभूत् । तत्किं मन्यसे कुलपुत्र-अन्यः स तेन कालेन तेन समयेन राजपरिवारोऽभूदन्तःपुरख्यागारदौवारिकपार्षद्या वा अनुयात्रिका वा ? न खल्वेवं द्रष्टव्यम् । इमानि तानि षष्टिर्निग्रन्थसहस्राणि, यानि सत्यकेन महावादिना भगवतः सकाशमुपनीतानि, वोदिध्वजधारणतया भगवतो वादायोपसंक्रान्तानि । तानि च सर्वाणि भगवता व्याकृतान्यनु- 15 B 144 त्तरायां सम्यक्संबोधौ । नानावुद्धक्षेत्रव्यूहै नाकल्पैर्नानानामधेयैस्तथागतां लोके उत्पत्स्यन्ते ।
स खलु पुनः कुलपुत्र विजितावी राजकुमारो मातापितृभ्यामनुज्ञातस्तान् बन्धनगतान् सत्त्वान् परिमोच्य स्फीतां वसुमती धनकनकरनसमृद्धामपहाय पुत्रदारं चोत्सृज्य तस्य भगवतो धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्य तथागतस्यान्तिके प्रावजत् । प्रत्रजित्वा पञ्च वर्षसहस्राणि ब्रह्मचर्यमचरत् । एतस्मिन्नन्तरे दश समाधिमुखसहस्राणि संनिष्पादया-20 मास । दश च धारणीमुखसहस्राणि प्रत्यलभत । दश च अभिज्ञानयसहस्राण्यवक्रान्तानि । दश बोधिसत्त्वमहानिधानसहस्राणि प्रतिलभते स्म । दश चास्य सर्वज्ञतावेगसहस्राण्याजातानि । दश चानेन क्षान्तिमुखसहस्राणि परिशोधितानि । दश चित्तनिध्यप्तिसहस्राण्यभिनिहतानि । दश च बोधिसत्त्वबलशरीराणि संवर्धितानि । दश च बोधिसत्त्वज्ञानमुखसहस्राण्यवक्रान्तानि । दश चास्य प्रज्ञापारमितानयसहस्राण्याजातानि । दश च बुद्धसहस्र-25 दर्शनदिङ्मुखसहस्राण्यामुखीभूतानि । दश च अनेन बोधिसत्त्वप्रणिधानसहस्राण्यभिनितानि। स एवं धर्मसमन्वागतः प्रतिचित्तक्षणे दशसु दिक्षु दशबुद्धक्षेत्रसहस्राण्याकामति स्म । एकैकस्यां च लोकधातौ चित्तक्षणे चित्तक्षणे दश बुद्धसहस्राणि पूर्वान्तापरान्ततोऽनुस्मरति स्म । तेषां च तथागतानां दश बुद्धनिर्माणसमुद्रसहस्राणि दशदिक्प्रसृतान्यवतरन्ति स्म । चित्तक्षणे चित्तक्षणे दश बुद्धक्षेत्रसहस्रपर्यापन्नान् सर्वसत्त्वानद्राक्षीत् । नानागत्युपपन्नां- 30
वादित्रध्वज.