SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २७६ 8357 गण्डव्यूहसूत्रम् । [४१.११गणनासमतिक्रान्ताश्च सत्त्वाः स्वर्गोपपत्तिपथे प्रतिष्ठापिता अभूवन् । विजितावी च राजकुमार इमं सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवं बोधिसत्त्वविमोक्षं प्रत्यलमत ॥ स्यात्खलु पुनस्ते कुलपुत्र-अन्यः स तेन कालेन तेन समयेन विजितावी राजकुमारोऽभूत् , येन तत्खकायजीवितं परित्यज्य सर्वधनस्कन्धपरिवारं परित्यज्य सर्वमानुष्यकं च 5 जीवलोकसुखं परित्यज्य ते बन्धनगताः सत्त्वाः तस्माद्बन्धनात् परिमोक्षिताः स च निरर्गलो महायज्ञो यष्टः ? स च भगवान् धर्मचक्रनिर्घोपगगनमेघप्रदीपराजस्तथागतोऽर्हन् सम्यक्संबुद्धः आरागितः ? तस्य च तथागतस्य सहदर्शनेनानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् ? एष च सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवो बोधिसत्त्वविमोक्षः प्रतिलब्धः ? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम् । अहं स तेन कालेन तेन समयेन विजितावी नाम 10 राजकुमारोऽभूवम् । मया तद्विजितावीराजकुमारभूतेन महाकरुणाप्रपीडितेन सर्वजगद्धित प्रतिपन्नेन त्रैधातुकानिश्रितेन विपाकाप्रतिकाङ्क्षिणा यशस्कीर्तिनामानभिनन्दिना आत्मानमनुत्कर्षयता परमपंसयता सर्ववस्त्वनभिनिविष्टेन भवसंज्ञोच्चलितेन त्रैधातुकानभिनन्दिना लोकविषयसुखविमुखेन तथागतविषयाविमुखेन बोध्याशयविशुद्धेन अध्याशयवज्रपरिनिष्पन्नेन सर्वजगन्महामैत्रीप्रयोगेन सर्वजगन्महाकरुणादुःखव्युपशमसंप्रयुक्तेन तथागतबलाध्याशय15 मध्यालम्बता बोधिसत्त्वमार्ग परिशोधयता महायानव्यूहनिर्याणपथमलंकुर्वता सर्वज्ञतामार्ग मभिविलोकयता इमान्येवं दुष्कराणि कृतानि । एवं चिरप्रतिलब्धः कुलपुत्र मयैष सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवो बोधिसत्त्वविमोक्षः ॥ तत्किं मन्यसे कुलपुत्र-अन्यानि तानि तेन समयेन पञ्चामात्यशतान्यभूवन् , यैः स राजा जयप्रभो वितथं विज्ञाप्य मम वधायोद्योजितः? न खल्वेवं द्रष्टव्यम् । इमानि S 358 20 तानि पञ्च पुरुषशतानि यानि देवदत्तेन भगवतो वधायोद्योजितानि । तानि च भगवता विनीय अनुत्तरायां सम्यक्संबोधौ व्याकृतानि-भविष्यत्यनागतेऽध्वनि सुमेरुपरमाणुरजःसमैः कल्पैः एकस्मिन् सुप्रभनामधेये कल्पे पञ्च बुद्धशतानि नानाबुद्धक्षेत्रगुणव्यूहानि नानाजन्मकुलगोत्रसंभवानि नानामातापितृव्यपदेशानि नानाजन्मविकुर्वितसंदर्शनानि नानाभिनिष्क्रमणविकुर्वितानि नानाबोधिवृक्षप्रभासंदर्शनानि नानाबोधिमण्डोपसंक्रमणमुखानि 25 नानामारभङ्गसंदर्शनानि नानाभिसंबोधिविकुर्वितसंदर्शनानि नानाधर्मचक्रप्रवर्तननयनामनिरुक्तीनि नानासूत्रान्तनयनिर्देशानि नानावाक्पथरुतोदाहाराणि नानापर्षन्मण्डलव्यूहानि नानाप्रभामण्डलप्रभाव्यूहप्रमुञ्चनानि नानायुःप्रमाणानि नानाशासनाधिष्ठानानि नानाशासनविज्ञप्तीनि नानानामधेयानि महाकरुणाशरीराणि, येषां प्राथमकल्पिको महाकारुणिको नाम तथागतो रत्नप्रभायां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । तस्यामेव 30 लोकधातौ द्वितीयः सर्वजगद्वितप्रणिधानचन्द्रो नाम तथागत उत्पत्स्यते । तृतीयो महा - १S सर्वधर्मस्कन्ध
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy