________________
२७५
8356
-४१.११] ४१ सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा । नैगमजनपदाः सर्वपाषण्डाश्च संनिपतिताः । स च भगवान् धर्मचक्रनिर्घोपगगनमेघप्रदीपराजस्तथागतः सत्त्वपरिपाकविनयकालमागमय्य तं यज्ञवाटमुपसंक्रान्तो देवेन्द्रगणपरिवृतो नागेन्द्रगणपरिवृतो नागेन्द्रसंपूजितो यक्षेन्द्रकायाभिनतो गन्धर्वेन्द्राभिष्टुतोऽसुरेन्द्रप्रणतशरीरश्रूडामणिविभूषितप्रसन्नचित्तो गरुडेन्द्रपूजाविधिभिरभिप्रकीर्णः प्रीतिमनोभिः किन्नरेन्द्रैः परिपूजितः स्तुतिसंगीतिसंचोदितो महोरगेन्द्रसंप्रेक्षितावलोकितवदनः । अद्राक्षीत् स: महाजनकायो विजितावी च राजकुमारस्तं भगवन्तं धर्मचक्रनिर्घोषगगनमेघप्रदीपराज तथागतमर्हन्तं सम्यक्संबुद्धं दूरत एवागच्छन्तं प्रासादिकं दर्शनीयं शान्तेन्द्रियं शान्तमानसं गुप्तं जितेन्द्रियं नागमिव सुदान्तं हृदमिवाच्छं विप्रसन्नमनाविलं महता वुद्धविकुर्वितप्रातिहार्येण महल्या बुद्धवृषभितया विरोचयमानं बुद्धाधिपतेयेनाभिभवन्तं वुद्धमाहात्म्यतया प्रभासयमानं महाबुद्धलक्षणानुव्यञ्जनविभूषणोपशोभितकायं सर्वलोकं वुद्धप्रभामण्डलाव- 10 भासेन स्फरमाणं वुद्धरश्मिभिरवभासयमानं सर्वरोमविवरेभ्यो गन्धरत्नार्चिश्चक्राणि प्रमुश्चमानं बुद्धक्षेत्रप्रकम्पनेन सर्वलोकं संकम्पयमानं सर्वव्यूहमेघप्रवर्षणेन बुद्धविक्रमेण सर्वसत्त्वक्लेशप्रजहनेन बुद्धेर्यापथेन सर्वसत्त्वप्रीतिवेगविवर्धनेन वुद्धदर्शनप्रभावेनोपसंक्रममाणम् । दृष्ट्वा च भगवतोऽन्तिके चित्तमभिप्रसादयामासुः ॥
अथ खलु विजितावी राजकुमारः स च महान् जनकायस्तं भगवन्तं धर्मचक्र- 15 निर्घोषगगनमेघप्रदीपराजं तथागतं दूरादेव प्रत्युद्गम्य प्रसन्नचित्तः सर्वशरीरेण प्रणिपत्य पादौ शिरसाभिवन्ध अनेकविधया पूजया संपूज्य एवं वाचमभाषत-एहि भगवन् , एहि सुगत । समन्वाहृताः स्मः तथागतेन, अनुपरिगृहीताः स्मः सुगतेन । अथ खलु विजितावी राजकुमारस्तस्य भगवतोऽप्रासनमुपदर्शयन् एवमाह-निषीदतु भगवान् । इदमासनं प्रज्ञप्तम् । ततो भगवत उपसंक्रामतस्तदासनं शुचिगर्भशरीरकायिकाभिर्देवताभिर्बुद्धानुभावेन गन्धमणि- 20 राजपद्मगर्भमधिष्ठितम् । न्यषीदद्भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्तथागतस्तत्रासने, आसनपरिवारेषु च बोधिसत्त्वाः । तस्य सहदर्शनेन तस्यां पर्षदि सर्वेषां सत्त्वानां सर्वव्याधयः प्रशान्ताः, सर्वावरणनिवरणविगताश्चार्यधर्माणां भाजनीभूताः संस्थिताः ॥
अथ खलु भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्तथागतस्तान् सत्त्वान् भाजन- भूतान् विदित्वा अनुपूर्वेण कथामकार्षीत् । यदुत हेतुमण्डलप्रभासं नाम सूत्रान्तं संप्रकाशया- 25 मास । खराङ्गसहस्रसंप्रयुक्तं च वदनान्तरात् सर्वधर्माङ्गसंप्रयुक्तं सर्वजगन्मन्त्रसागरनिरुक्तिनिर्नादनिर्घोषं निश्चारयामास । अथ तावदेव ततः पर्षदोऽशीतीनां प्राणिनियुतानां विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नम् । बहुभिश्च प्राणिनियुतैरशैक्षभूमिरनुप्राप्ता । दश च प्राणिसहस्राणि महायाने विनीतानि, यदुत समन्तभद्रबोधिसत्त्वचर्यामहाप्रणिधानपरिपूरिनयेऽवतारितानि । एवं तस्य भगवतो महाबुद्धविकुर्वितेन धर्मचक्र प्रवर्तयमानस्य दशसु 30 दिक्षु बुद्धक्षेत्रशतसहस्रपरमाणुरजःसमाः सत्त्वा महायाने विनयमगमन् । अनन्तमध्याश्च सत्त्वा दशदिशि लोके नानाबुद्धक्षेत्रप्रसरसमवसरणेष्वपायभूमिं विनिवर्तयामासुः ।
B143