________________
२७४
8354
s 354
B143
गण्डव्यूहसूत्रम् ।
[४१.११अथ खलु स विजितावी राजपुत्रो महाकरुणापरिपीडितस्तानमात्यान् प्रोवाचतथास्तु यथा यूयं वदथ । तदथोत्सृजतैनानपराधिनः पुरुषान् । अहमेषामथार्य सर्वदुःखवेदनाः संसोढुमुत्सहे । यद् युष्माभिरेषां करणीयं तन्मम कुरुत । अहमेषां बन्धनविप्रमोक्षाय विविधकारणापरिगतः कायजीवितं परित्यजामि । तत्कस्य हेतोः? यद्यहमेतान् सत्त्वा5 नस्माद्बन्धनान्न शक्नोमि मोचयितुम् , तत्कथं शक्यं त्रैधातुकबन्धनागारगतान् सत्त्वांस्तृष्णापाशविनिबद्धान् अविद्यागहनगतान् मोहान्धकारप्रक्षिप्तान् दारिद्र्यदुःखप्रपीडितान् गम्भीरगहनदुर्गतिप्रतिपन्नान् विसंस्थितविवर्णशरीरान् निरस्तसर्वेन्द्रियप्रयोगान् विभ्रान्तमानसान् अनिःसरणदर्शिनः आलोकविरहितांस्तांस्त्रैधातुकाभिनिविष्टान् पुण्यज्ञानसंभारविकलान् ज्ञानायतनपरिभ्रष्टान् नानाक्लेशमलिनचित्तान् दुःखपञ्जरप्रक्षिप्तान् मारवशगतान् जातिजरा10 रमणशोकपरिदेवदुःखदौर्मनस्योपायासप्रपीडितान् परिमोचयितुम् ॥
____ अथ खलु विजितावी राजकुमारस्तान् सर्वान् बन्धनगतान् सत्त्वांस्तस्माद्बन्धनागारात्परिमोचयति स्म आत्मपरित्यागेन सर्वपरिवारेण सर्वधनस्कन्धेन । स तान् परिमोच्य यत्तेषां सत्त्वानां दुःखोपधानं तदुत्सृज्य न विनिवर्तयते स्म । अथ तानि पञ्चा
माल्यशतान्यूलबाहूनि उत्क्रोशमानानि जयप्रभं राजानमुपसंक्रम्य एवमाहुः-यत्खलु देवो 15 जानीयात्-विजिताविनः कुमारस्य च्छन्देनायं राजकोशो विलुप्यते । अस्माकमपि सर्वेषां
जीविते संशयः। यदि देवो विजिताविनो राजकुमारस्य निग्रहणं न करिष्यति, देवस्य नचिरेण जीवितं न भविष्यति ॥
अथ खलु जयप्रभो राजा कुपितो विजिताविनं राजकुमारं सह तैरपराधिभिः पुरुषैर्वधायोत्सृष्टवान् । तस्य माता जनेत्री तच्छ्रुत्वा उद्विग्ना स्त्रीसहस्रपरिवृता प्रमुक्तकेशी 20 निराभरणगात्री खमुख व्यालप्य उरस्ताडयन्ती पांश्ववकीर्णशिरस्का क्रन्दमाना आर्तखरं रुदन्ती राजानमुपसंक्रम्य सपरिवारा चरणयोर्निपत्य एवं विज्ञापयामास-प्रमुञ्च देव विजिताविनं राजकुमारम् । देहि देव कुमारस्य जीवितम् । अथ राजा विजिताविनं कुमारं संमुखं स्थापयित्वा एवमाह-उत्सृज कुमार एतानपराधिनो मनुष्यान् । यदि नोस्रक्ष्यसि, तदेषामर्थाय
वधमुपगमिष्यसीति । स वधमभ्युपगतवानसंलीनेन चित्तेन असंकुचितेन सर्वज्ञतारम्बण28 प्रयुक्तेन परहितपरिणतेन महाकरुणापूर्वगमेन । तस्य जनेत्र्या राजा जयप्रभोऽर्धमासं याचितो दर्शनाय-अधमासं कुमारो दानं ददातु यस्य येनार्थः । ततो यथाकामं करणीयः । भवतु तत्तथेति राज्ञानुज्ञातम् । अथ तस्या रतिव्यूहाया राजधान्या उत्तरेण पूर्वयज्ञवाटप्रकृतं सूर्यप्रमं नाम महोद्यानम् । तत्र कुमारोऽभिनिष्क्रम्य यस्य येनार्थः तस्य तत्प्रादात् । तेन निरर्गलं यज्ञं यजता अर्धमासं विविधा दानविधयोदत्ताः।अन्नमन्नार्थिभ्यः पानवस्त्रपुष्पमाल्यविले30 पनचूर्णचीवरच्छत्रध्वजपताकारत्नाभरणविविधविभूषणसर्वोपकरणविषयस्तदर्थिभ्यो निसृष्टः ।
ततः पश्चिमे दिवसे सर्वजनकायः संनिपतितः। राजामात्यस्त्रीगणश्रेष्ठिगृहपति18 महान्य'. R S विग्रहं.
8355