________________
5 353
४१.११] ४१ सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा।
२७३ चातुर्कीपकस्य रतिव्यूहाया राजधान्या नातिदूरे उपपन्नः । तस्याः खलु पुना रतिव्यूहाया राजधान्याः पूर्वेण सुप्रमं नाम वनषण्डमभूत् । तस्मिन् खलु पुनः सुप्रभे वन पण्डे रत्नकुसुममेघो नाम वोधिमण्डोऽभूत् । तस्मिन् खलु रत्नकुसुममेधे बोधिमण्डे वैरोचनमणिपद्मगर्भसिंहासनं प्रादुरभूत् , यत्र स भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीराजस्तथागतो निषद्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । तेन च समयेन मनुष्याणां दश वर्षसहस्राणि आयु:- 5 प्रमाणमभूत् । अथ प्राणातिपातिषु सर्वेषु लोके प्रादुर्भूतेषु अदत्तादायिषु काममिथ्याचारिपु मृषावादिषु पैशुनिकेषु पारुषिकेषु संमिन्नालापिषु अभिध्यालुषु व्यापनचित्तेषु मिथ्यादृष्टिषु, एवं दशवकुशलेषु कर्मपथेषु विपुलीभूतेषु सुप्रतिष्ठितेषु स भगवान् धर्मचक्रनिर्घोषगगनमेधप्रदीपराजस्तथागतः परिपूर्ण वर्षसहस्रं बोधिमण्डगतो बोधिसत्त्वानां धर्म देशयामास लोकेन्द्राणां च पूर्वजिनकृताधिकाराणां जम्बुद्वीपकानां च मनुष्याणां कुशलमूलपरिपाचनाय ॥ 10
तेन च समयेन तस्यां रतिव्यूहायां राजधान्यां जयप्रभो नाम राजा अभूत् । तेन अदत्तादायिनां पुरुषाणां चौराणां किल्विषकारिणां प्राणातिपातिनां काममिथ्याचारिणां मृषावादिनां पैशुनिकानां पारुषिकाणां संभिन्न प्रलापिनां अभिध्याटूनां व्यापन्नचित्तानां मिथ्यादृष्टिकानामधर्मरागरक्तानां विषमलोभाभिभूतानां मिय्याधर्मपरिगतानां कृतपापानां कृतरौद्राणामकृतपुण्यानामकृतभयभीरुत्राणानाममातृज्ञानामपितज्ञानामश्रामण्यानामब्राह्मण्या- 15 नाममनार्यज्ञानामपराधिनामनेकानि शतसहस्राणि चारके प्रक्षिप्तान्यभूवन् दमनार्थाय । राज्ञः खलु पुनः जयप्रभस्य विजितावी नाम पुत्रोऽभूदभिरूपः प्रासादिको दर्शनीयः परमशुभवर्णपुष्कलतया समन्वागतोऽष्टविंशतिभिर्महापुरुषलक्षणैरुपेतः । अथ स सरखतिसंगीतिप्रासादाभिरूढो महास्त्रीगणपरिवारपरिवृतः तेषां चारकावरुद्धानां सत्त्वानां विविधगाढबन्धनबद्धानां भैरवमुत्कोशशब्दमश्रौषीत् । श्रुत्वा च पुनरुद्विग्नः संविग्नचित्तो महाकरुणा- 20 संजातः तस्मात्प्रासादादवतीर्य तच्चारके प्रविश्य अद्राक्षीत्तांश्चारकगहनप्रक्षिप्तान् सत्वान् नानाहडिनिगडकटककुण्डलशृङ्खलाखलीनबन्धनबद्धान् परस्परशरीरविनिवद्धान् महान्धकारप्रक्षिप्तान् धूमतिमिरावृतान् विषमवातोपहतशरीरान् धमनीसंततगात्रान् क्षुत्पिपासापरिपीडितान् नग्नान् निर्वसनान् पांशुरजःसंम्रक्षितशरीरांश्च केशाभिच्छादितकायान् ऊरुनिगडबन्धनबद्धान् विविधाः कारणाः कार्यमाणान् दुःखवेदनामनुभवमानाननेकविधान् 25 कारणान् परिदेवविप्रलापान् प्रमुञ्चमानान् । स तान् दृष्ट्वा महत्कारुण्यमुत्पाद्य उदारकरुणाशयसंजातः परहिताधानोऽद्भुतचेताश्चारकगहनगतान् सत्त्वान् समाश्वासयामास वन्धनविप्रमोक्षाय । स तेषां सत्त्वानामभयं दत्वा येन राजा जयप्रभस्तेनोपसंक्रम्य एवमाहयत्खल देवो जानीयात्-मया बन्धनागारबन्धनगतानां सत्त्वानां कारुण्यादभयं दत्तम् । ते मुच्येरन् । अथ जयप्रभेण राज्ञा सर्वाणि पश्चामात्यशतानि संनिपात्य परिपृष्टानि-30 युष्माकं कथं भवति ? त आहुः-एते राजकोशविलोपिनो राज्ञो वधाय पराक्रान्ताः। राज्ञोऽन्तःपुरे पराक्रमन्तो गृहीताः । वधार्दा ह्येते । वध एवैषां दण्डो बन्धनगतानां वा मरणम् । योऽप्येषामनुग्रहाय प्रतिपद्यते, सोऽपि राज्ञोऽपराधी ॥
गण्ड. ३५