SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ 8351 ૨૭૨ गण्डव्यूहसूत्रम्। [४१.११तथा हि बोधिसत्त्वोऽत्यन्तमविपर्यस्तसंज्ञाचित्तदृष्टिविपर्यासमतिक्रान्तः, स्वप्नोपमसर्वलोकयथाभूतज्ञानदर्शी मायोपमसर्वलोकावतीर्णो निःसत्त्ववतीधातुज्ञानप्रतिलब्धो यथाभूतधर्मदर्शी सुविपुलकरुणामण्डलमहाप्रणिधानवशेन सर्वसत्त्वाभिमुखः संदृश्यते परिपाकविनयमुपादाय ॥ तद्यथा कुलपुत्र महानद्यादिषु यानपात्रं सततसमितं सत्त्वसंतारणाय प्रयुक्तमप्रति5 प्रस्रब्धं भवति, यावज्जीवं न चास्य अपारिमे तीरेऽभिनिवेशो भवति न पारिमे, न चोदकमध्ये संतिष्ठते, एवमेव कुलपुत्र बोधिसत्त्वो महापारमितायानपात्रबलेन संसारनदीस्रोतसः सर्वसत्त्वसंतारणाय प्रतिपन्नो भवति । न चास्य अपारिमे तीरे उत्रासो भवति, न पारिमे तीरे क्षेमसंज्ञा । अथ च पुनः सततसमितं सत्त्वसंतारणाय प्रतिपन्नो भवति । अपरिमितसर्वकल्पव्यवसितेन बोधिसत्त्वचर्यासंवासेन च कल्पविमात्रतामभिनिविशते । न 10 कल्पातिक्रमणदीर्घसंज्ञायामभिनिविष्टो बोधिसत्त्वचर्यायां चरति ॥ तद्यथा कुलपुत्र धर्मधातुविपुलमाकाशधातुगगनमण्डलं सर्वलोकधातुषु संवर्तमानेषु विवर्तमानेषु व्यतिवृत्तेषु वा अविकल्पं प्रकृतिविशुद्धमसंक्लिष्टमनावृतमखिन्नमदीर्घमनवतीर्णमपरान्तकालं सर्वक्षेत्राणि धारयमाणम् , एवमेव कुलपुत्र बोधिसत्त्व आशयज्ञानगगनतलमण्डलं महाप्रणिधानवातमण्डलीपरिवृतं सर्वदुर्गतिप्रपातेभ्यः सत्त्वान् संधारयमाणः न परि15 खिद्यते, सुगतिपथमुपनयमानो न परित्रस्यति, सर्वज्ञतापथेषु प्रतिष्ठापयमानो नावसीदति, सर्वक्केशैर्नाकुलीभवति, संसारदोषैर्नोपलिप्यते ॥ तद्यथा कुलपुत्र मायागतनिवृत्तस्य पुरुपस्य सर्वाङ्गप्रत्यङ्गपरिपूर्णस्य दश शरीरस्था धर्मा न संविद्यन्ते । कतमे दश ? यदुत आसरितं वा निःसरितं वा, शीतं वोष्णं वा, क्षुधा वा पिपासा वा, हर्षो वा मन्युवृतभावो वा, जातिजराव्याधिमरणं वा पीडा वा न 20 संविद्यते । एवमेव कुलपुत्र बोधिसत्त्वस्य ज्ञानमायागतनिर्यातरूपस्यासंभिन्नधर्मधातुकायस्य सर्वभवगतिषूपपन्नस्य सर्वसत्त्वपरिपाकाय सर्वकल्पान् संवसमानस्य दश धर्मा न संविद्यन्ते । कतमे दश ? यदुत संसाराभिलाषो वा संसारभवगत्युपपत्तिनिर्वेदो वा विषयरत्यनुनयो वा प्रतिघातचित्तता वा उपभोक्तुकामती वा सर्वक्लेशपरितापो वा दुःखवेदनानुभावो वा विषय गत्युपपत्तिभयं वा भवाभिलाषो वा अभिनिवेशो वा । अपि तु खलु कुलपुत्र निर्देक्ष्यामि 25 बुद्धानुभावेन अनागतानां च बोधिसत्त्वानां विपुलबोधिसत्त्वप्रणिधानबलविवर्धनतायै ॥ भूतपूर्व कुलपुत्र अतीतेऽध्वनि लोकधातुसमुद्रपरमाणुरजःसमानां परेण परतरेण यदासीत्-तेन कालेन तेन समयेन रत्नप्रभा नाम लोकधातुः । तस्यां खलु पुनः कुलपुत्र रत्नप्रभायां लोकधातौ सुप्रभो नाम कल्पोऽभूत् । तस्मिन् खलु पुनः सुप्रभे कल्पे दश बुद्धसहस्राण्युपपद्यन्ते स्म । तेषां खलु कुलपुत्र दशानां बुद्धसहस्राणां प्राथमकल्पिको धर्म30 चक्रनिर्घोषगगनप्रदीपराजो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान् , येन सर्वप्रथममनुत्तरा सम्यक्संबोधिरभिसंबुद्धा । स खलु पुनः कुलपुत्र तथागतो मध्ये B141 8352
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy