________________
-४१.११] ४१ सर्वजगद्रक्षाप्रणिधान ीर्यप्रभा। २७१
___एवमहं कुलपुत्र अस्मिन् सर्वसत्त्वपरिपाकयथाशयकुशलमूलमंचोदनबोधिसत्त्वविमोक्षे प्रतिष्ठाय अविभक्तरूपधर्मतामवतीर्य अनन्तमध्यकायवर्णसंस्थानतां संदर्शयित्वा एकैकस्माचर्याकायादनन्तनध्यान् वर्णसमुद्रालोकविज्ञस्या एकैकस्माचर्यावर्णादनन्तमध्यान् रश्मिमेवानवत्सृज्य वुद्धक्षेत्रप्रतिभासान् दर्शयित्वा एककस्मिंश्च युद्धक्षेत्र अनन्तनध्यामकैकस्मादश्मरनन्तमध्यान् तथागतोत्पादान् संदर्शयित्वा एकैकस्य च तथागतन्त्य अनन्तमध्यानि 5 विकुर्वितानि संदर्शयमाना पूर्वकाणि कुशलमूलानि संचोदयामि । अनवरोपितानि च कुशलमूलान्यवरोपयामि । अवरोपितानि च विगुलीकरोमि । विपुलीकृतानि च कुशलमूलानि विवर्धयामि । प्रतिचित्तक्षणं च अनन्तमध्यं सत्त्वधातुननुत्तरायां सम्यक्संबोधौ अविव~भूमौ प्रतिष्ठापयामि ॥
यत्पुनः कुलपुत्र एवं वदसि-कियचिरसंप्रस्थितासि देवते अनुत्तरायां सम्यक्संबोधो ? 10 कियन्ति कल्पशतान्युपादाय बोधिसत्त्वचारिकां चरसि ? इत्येतदपि तेऽथ निर्देक्ष्यामि वुद्धानुभावेन । अकल्पाविकल्पपरिकल्पविषयं कुलपुत्र बोधिसत्त्वानां ज्ञानमण्डलम् । न तत्र संसारदीर्घता वा संसारहखता वा प्रभाव्यते प्रज्ञायते । कल्पसंक्लिष्टता वा कल्पविशुद्धता वा कल्पपरीत्तता वा कल्पमहृद्गतता वा कल्पवहुत्वं वा कल्पनानात्वं वा कल्पनानाकरणं वा कल्पविमात्रता वा प्रभाव्यते प्रज्ञायते वा । तत्कस्य हेतोः ? प्रकृतिन्वभावपरिशुद्धं कुलपुत्र वोधि- 15 5 350 सत्त्वानां ज्ञानमण्डलं सर्वसंज्ञाजालनिर्मुक्तं सर्वावरणपर्वतसमतिक्रान्तमाशये उदेति । तच्च सर्वसत्त्वानां यथाशयपरिपाझकालवनेयानामवभासं करोति । तद्यथा कुलपुत्र सूर्यमण्डले रात्रिंदिवं संख्या न विद्यते, न संवसति । अस्तंगमिते सूर्यमण्डले रात्रिः प्रज्ञायते प्रभाव्यते । उदागते च सूर्यमण्डले दिवसः प्रज्ञायते प्रभाव्यते । एवमेव कुलपुत्र अविकल्पे बोधिसत्त्वज्ञानमण्डले सर्वकल्पविकल्पपरिकल्पा न संविद्यन्ते । सर्वसंसारसंवसनसंज्ञागतानि सर्वाध्यानश्च संविद्यन्ते । 20 अथ च पुनर्वोधिसत्त्वाशयोदिता विकल्पज्ञानमण्डलप्रभेन सर्वसत्त्वपरिपाककालवशेन कल्पसंवाससंसारसंज्ञागतगणनासंख्या प्रभाव्यते । अविकल्पज्ञानमण्डले पूर्वान्तापरान्तकल्पसंवाससंज्ञागतसंख्या प्रभाव्यते । तद्यथा कुलपुत्र सूर्यमण्डलं गगनतलगतं सर्वरत्नपर्वतेषु सर्वरत्नद्रुमेषु सर्वरत्नराजेषु सर्वरत्नाकरेषु सर्वसागरेषु सर्वोत्ससरःसु सर्वस्वच्छजलभाजनेषु सर्वजगच्चित्तेषु च प्रतिभासप्राप्तं विज्ञायते । सत्वानां चाभिमुखं समुदागच्छति । सर्वरत्नपर- 25 माणुरजःसु च सूर्यमण्डलं प्रतिभासप्राप्तं दृश्यते । न च पुनस्तत्सूर्यमण्डलं रत्नपर्वतेषु संभवति, न रनद्रुमेषु यावन्न परमाणुरजःखनुप्रविशति । न मणिस्फरेष्वन्तर्गतं भवति । न रत्नाकरेष्वनुगच्छति । न सागरेष्ववतरति । न सर्वोदकभाजनेष्वनुप्रविशति । सर्वत्र चान्तर्गतं दृश्यते । एवमेव कुलपुत्र बोधिसत्त्वो महासत्त्व उच्चलितो भवसमुद्रादुद्गतस्तथागतधर्मधातुगगने धर्मखभावगगनगोचरविहारी शान्तगगननिलयः सर्वभवगत्युपपत्तिषु संदृश्यते सर्वसत्त्वसदृशैः 30 कायैः सत्त्वानां परिपाकविनयमुपादाय।न च संसारदोषैलिप्यते, न च्युत्युपपत्तिदुःखैरुपतप्यते, न च कल्पविकल्पैः संवसति, न चास्य कल्पे दीर्घसंज्ञा भवति न हखसंज्ञा । तत्कस्य हेतोः?