SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २८० [४१.१ गण्डन्यूहसूत्रम् । पुत्रोऽस्य नाम्ना विजिताविरासीत् प्रासादिको लक्षणचित्रिताङ्गः ॥ १६ ॥ वधाय सृष्टानि नृपेण तेन तदा सहस्राण्यपराधिनां हि । दृष्ट्वा कुमारः कृपया परीत स्तान् विप्रमोक्षाय नृपं ययाचे ॥ १७ ॥ श्रुत्वा नृपोऽमाल्यगणं तदानी___माहूय तेषां निखिलं तदाह । ते प्रोचुरेनं प्रणिपत्य सर्वे त्वद्धातनायैष नृप प्रयोगः॥ १८ ॥ विग्राहितस्तैर्नृपतिस्तदैवं __वधाय तं पुत्रमथोत्ससर्ज । अदीनवक्त्रः खवधानपेक्षो वध्यानत्यजन्न स राजसूनुः ॥ १९ ॥ श्रुत्वा वधोत्सृष्टमथास्य माता ___ सान्तःपुरार्ता नृपतिं ययाचे । मुञ्चार्धमासं नृपते कुमारं दातुं प्रदानान्यखिलानि लोके ॥२०॥ दत्ताभ्यनुज्ञश्च नृपेण तेन प्रादात्स दानानि यथोचितानि । रात्रिंदिवं दानमथार्धमासं ___ दत्वा दिशाभ्यः समुपागतानाम् ॥ २१ ॥ पाषण्डिनां यस्य यदीप्सितं तत् तस्मै ददाति स्म वधाय सज्जः । मुक्तार्तनादाथ विनिर्जगाम सा राजधान्या जनता समग्रा ॥ २२ ॥ सद्धर्मघोषाम्बरदीपराजो बोधिद्रुमस्थः सुगतस्तदानीम् । पक्कानि ज्ञात्वा जगदिन्द्रियाणि तं यज्ञवाटं कृपया जगाम ॥ २३ ॥ 30 १B मत्वा.
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy