SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ -४०..] ४० सर्ववृक्षप्रफुल्लनसुखलवासा। क्षणमनवशेषसर्वसत्त्वपरिपाकविनयपरंपराविशुद्धयेऽभिनिर्हरति स्म । प्रतिचित्तक्षणमनवशेषसर्वक्षेत्रपरंपरानुपक्लिष्टानुत्तरखुद्धक्षेत्रालंकारविशुद्धव्यूहप्रतिमण्डलपरिपूरये प्रतिचित्तक्षणमनवशेषसर्वधर्मनयसागरकरणविशुद्धये प्रतिचित्तक्षणमनवशेषाकाशधातुतलस्फरणज्ञाननयपरिपूरये प्रतिचित्तक्षणमनवशेषसत्त्वाध्यवतरणज्ञाननयविशुद्धये प्रतिचित्तक्षणमनवशेषसर्वजगद्विनयज्ञाननयावभासप्रतिलम्भाय प्रतिचित्तक्षणमनवशेषसर्वकालधर्मचक्रप्रवर्तनाभि-6 वर्त्यतायै प्रतिचित्तक्षणमनवशेषसर्वज्ञज्ञानाधिष्ठानकौशलसंदर्शनसर्वजगदुपकारीभूतत्वाय प्रतिचित्तक्षणमनवशेषसर्वलोकधातुसंख्याप्रचारेषु सर्वलोकधातुसमुद्राभ्युद्गतेषु सर्वलोकधातुसमुद्रसमवसरणेषु नानालोकधातुप्रसरनिर्देशेषु नानालोकधातुवंशव्यवस्थानसंधिव्यूहेषु नानाप्रतिष्ठानानेकशरीरनिर्देशेषु नानाव्यूहकल्पविमानतानिर्देशेषु संक्लिष्टविशुद्धसंक्लिष्टैकान्तपरिशुद्धविपुलमहगताप्रमाणसंक्षिप्तसूक्ष्मोदारसमतलव्यत्यस्तोर्ध्वमूर्धदिग्विदिग्मुखनानादिक्समुद्र- 10 समवसरणेषु नानामुखनिर्देशान्तद्वारसंस्थानविमात्रताव्यूहेषु सर्वलोकधातुप्रसरेषु बोधिसत्त्वचयों चरन् बोधिसत्त्वन्याममवक्रम्य नानाबोधिसत्त्वचर्याविकुर्वितस्फरणतायै प्रतिचित्तक्षणमनवशेषसर्वत्र्यध्वबुद्धकायपरसत्त्वचित्ताशयविज्ञप्तये सर्वजगत्सर्वज्ञतापुण्यसमुद्रवेगं विवर्धयन्नभिनिहरति स्म ॥ एवं हि कुलपुत्र भगवान् वैरोचनस्तथागतः पूर्वबोधिसत्त्वां चरन् पुण्यज्ञानसंभार-15 विरहिते लोकसंनिवेशे अकृतज्ञसत्त्वपरिपूर्णे अज्ञानतमोवनद्धे अहंकारममकाराभिनिविष्टे अविद्यान्धकारतिमिरावृते अयोनिशोवितर्कप्रसृते दृष्टिगहनकान्तारप्रस्कन्धे हेतुफलसंमूढे कर्मक्केशवशगते महासंसारकान्तारदुःखपातालमध्यप्रपतिते विविधदारिधदुःखं प्रत्यनुभवति महाकरुणां संजनय्य विपुलान् पारमिताचर्यामेघानभिनिर्दृत्य कुशलमूलदृढप्रतिष्ठानं संवर्णयन् सर्वसत्त्वानां संसारदारिद्यदुःखं विनिवर्तयन् महापुण्यज्ञानसंभारमभिरोचयन् 20 हेतुमण्डलदिशमभिद्योतयन् कर्मधर्माविरोधदिशं प्रभावयन् वुद्धधर्ममण्डलसमुदागमदिशमवभासयन् सर्वसत्त्वाधिमुक्तिदिशं प्रभासयन् सर्वसत्त्वक्षेत्रसंभवदिशं संदर्शयन् सर्वतथागतवंशानुपच्छेददिशमनुबध्नन् सर्वबुद्धशासनदिशं संधारयन् सर्वाकुशलधर्मदिशं विनिवर्तयन् सर्वज्ञतासंभारदिशं संवर्णयन् सर्वसत्त्वधातुं स्फरित्वा महान्तं पारमितामेघमभिनिहत्य यथाशयसत्त्वसंतोषणमत्यन्तधर्मसंग्रहे सत्त्वान् प्रतिष्ठापयामास । सर्वज्ञतासंभारे समादापयति 25 स्म । महाबोधिसत्त्वपारमिताखवतारयामास । सर्वार्यधनप्रतिलम्भैरुपस्तम्भयामास । सर्वज्ञताप्रीतिवेगैः कुशलमूलसमुद्रान् सत्त्वानां विवर्धयामास । सर्वतथागतविकुर्वितमुखेषु चैनानवतार्य अत्यन्तमुपधिशेषसुखसंग्रहेण संगृह्य तथागतमाहात्म्याभिमुखान् कृत्वा बोधिसत्त्वसंग्रहज्ञाने प्रतिष्ठापयामास ॥ सुधन आह-कियच्चिरं संप्रस्थितासि देवते अनुत्तरायां सम्यक्संबोधौ ? आह- 30 दुरभिसंभवं कुछपुत्र एतत्स्थानं दुर्विज्ञेयं दुरधिमोचं दुरवतरं दुःप्रव्याहारं दुरधिगमम् । न शक्यं सदेवकेन लोकेनावतरितुं सर्वश्रावकप्रत्येकबुद्धैश्च, अन्यत्र तथागताधिष्टानेन 8321 B 129
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy