________________
२४४
8319
B 128
गण्डव्यूहसूत्रम् ।
[४०.०विषयः ? आह-तथागतपुण्यसत्त्वसंग्रहज्ञानोपायावभास एष कुलपुत्र विमोक्षः । तत्कस्य हेतोः ? यत्किंचित् कुलपुत्र सत्त्वाः सुखमनुभवन्ति, सर्व तत्तथागतपुण्यप्रभावेन तथागतानुशासनीपथेन तथागतवचनप्रतिपत्त्या तथागतानुशिक्षणेन तथागताधिष्ठानेन तथागतज्ञानमार्गप्रतिपत्त्या तथागतभागकुशलमूलावरोपणेन तथागतधर्मदेशनानिष्यन्देन तथागतज्ञानसूर्याव5 भासेन । तथागतगोत्रशुक्लकर्ममण्डलप्रभया हि कुलपुत्र सत्त्वानां सुखानि संभवन्ति । तत्कस्य हेतोः? तथा हि कुलपुत्र अहमेतं विपुलप्रीतिसंभवसंतुष्टयवभासं बोधिसत्त्वविमोक्षमवतरन्ती भगवतो वैरोचनस्य तथागतस्याहंतः सम्यक्संबुद्धस्य पूर्वबोधिसत्त्वचर्यासमुद्रं समनुस्मरन्ती अवतरन्ती अवगाहयमाना एवं जानामि, एवमनुगच्छामि-यथा भगवतः पूर्वबोधिसत्त्वभूमिमध्यालम्बमानस्य सत्त्वानहंकारमर्मकाराभिनिविष्टान विद्यान्धकारप्राप्तान् दृष्टिगहनकान्तारप्रविष्टां10 स्तृष्णावशंगतान् रागबन्धनबद्धान् दोषप्रतिघचेतसो मोहाकुलसंतानानीामात्सर्यपर्यवनद्धान् क्लेशसमाकुलचित्तान् महत्संसारदुःखं प्रत्यनुभवतः संसारदारिद्यदुःखप्रपीडितान् बुद्धदर्शनविमुखान् सत्त्वान् दृष्ट्वा महाकरुणाचित्तं प्रादुरभवत् । सर्वसत्स्वानामर्थ सर्वजगदुपकरणरतसंग्रहपरिग्रहचित्तं सर्वसत्त्वसंसारोपकरणसंभवचित्तं सर्ववस्त्वाग्रहविगतचित्तं सर्वविषया
लुन्धचित्तं सर्वरतिष्वनध्यवसितचित्तं सर्वपरिभोगेष्वगृद्धचित्तं सर्वदानेषु विपाकाप्रति15 काङ्खणचित्तं सर्वलोकसंपत्तिष्वस्पृहणाचित्तं हेतुप्रत्ययसंमूढचित्तं सुपर्येषितयथावद्धर्मनिध्यप्तिचित्तं सर्वसत्त्वार्थप्रतिशरणताभिनिर्हरणचित्तं प्रादुरभवत् ॥
स एवं यथाभूतसर्वधर्मखभावावतीर्णचेताः सर्वसत्त्वधातौ महामैत्रीसमताप्रतिपन्नः सर्वजगन्महाकरुणामेघस्फरणप्रयोगः सर्वसत्त्वलोकसंछादनमहाधर्मच्छत्रमण्डलः सर्वसत्त्वक्लेशपर्वतविनिर्भेदनमहाज्ञानवज्रप्रहरणः सर्वजगत्सुखसंभवतुष्टिवेगसंवर्धितचेताः सर्वसत्त्वात्यन्त20 सुखाभिनिहर्हारप्रणिधानचेता यथाशयाभिप्रायसर्वसत्त्ववस्त्वभिप्रवर्षणचेताः सर्वसत्त्वापरित्याग
समप्रयोगचेता आर्यधनसर्वसत्त्वसंतर्पणचेताः परमदशबलज्ञानरत्नप्रतिलम्भचेता बोधिसत्त्वमहाभिज्ञाबलाधानप्राप्तो विविधबोधिसत्त्वमहाविकृर्वितमेघेन धर्मधातुपरमाकाशधातुपर्यवसानं सर्वसत्त्वधातुं स्फरित्वा सर्वसत्त्वाभिमुखस्थितः सर्वाकारसर्वारम्बणमहामेघं प्रवर्तयन्
सर्वरत्नाभरणमहामेघवर्ष चाभिप्रवर्षन् , यदुत सर्वसत्त्वानां यथानुकूलपरिभोगाय अनन्तवस्तु25 विमात्रतापरित्यागमप्रमेयोपकरणवैमात्रचारित्रं नानाविधसर्वदानसंग्रहप्रयोगमनेकविधवस्तुपरित्यागसमुदाचारमनभिलाप्योपकरणजातव्यूहामिसंस्कारं नानालक्षणदानसंभारविचित्रं यशियसत्त्वसंतोषणमनन्तल्यागविधिमनुगच्छन् यथाशयसत्त्वसंतर्पणाभिनिर्हारे सर्ववस्तुत्यागविसर्जनमविच्छिन्नसर्वजगत्संस्कारदुःखपरित्राणप्रयोग सर्वसत्त्वप्रतिकाराप्रतिकाझी सर्वजग
समतासमुदागतचेताः सर्वजगच्चित्तरत्नं परिशोधयमानः सर्वबुद्धकधनकुशलमूलसमुद्रसंभूतं 30 सर्वजगद्ययाशयोपकरणवर्षसंग्रहप्रयोगं सर्वजगत्सर्वज्ञतापुण्यसमुद्रवगं विवर्धयन् प्रतिचित्त
8320
-
-
IS om. °ममकार'. S om. यथा...गच्छन्. . . . .