________________
४० सर्ववृक्ष प्रफुल्लनसुखसंवासा ।
अथ खलु सुधनः श्रेष्ठिदारको मनोज्ञरुतगम्भीरविकुर्वितप्रवेशं बोधिसत्त्वविमोक्षं भूयस्या मात्रया प्रभावयमानः संभावयमानो विपुलीकुर्वन् येन सर्ववृक्षप्रफुल्लनसुखसंवासा रात्रिदेवता तेनोपसंक्रान्तः। सोऽपश्यत् सर्ववृक्षप्रफुल्लनसुखसंवासां रात्रिदेवतां रत्नद्रुमाङ्कुरगर्भे सिंहासने सर्वगन्धरनद्रुमशाखे कूटागारे संनिषण्णां दशरात्रिदेवतासहस्रपरिवाराम् ॥
अथ खलु सुधनः श्रेष्टिदारकः सर्ववृक्षप्रफुल्लनसुखसंवासाया रात्रिदेवतायाः पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह - मया आर्ये देवते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् । न च जानामि - कथं बोधिसत्वेन वोधिसत्त्वचर्यायां चरितव्यम्, कथं शिक्षितव्यम् । तद्वदख मे देवते, कथं बोधिसत्त्वा बोधिसत्त्वचर्यायां चरन्ति, कथं शिक्षन्ते, कथं चरित्वा कथं शिक्षित्वा निर्यान्ति सर्वज्ञतायाम् ॥
5
10
एवमुक्ते सर्ववृक्षप्रफुल्लनसुखसंवासा रात्रिदेवता सुधनं श्रेष्ठिदारकमेतदवोचत् - मम कुलपुत्र अनुभावेन सहे लोकधातौ आदित्यास्तंगमनकाले पद्मानि प्रफुल्लानि सुगन्धीभवन्ति । सर्वे नगरनारीगणाश्चोद्यानगता रतिक्रीडाप्रयुक्ता गृहगमनाय मतिमुत्पादयन्ति । पथोत्पथगताः सत्त्वा रात्रिस्थाने चेतनाबहुलाः सर्वजगत्पालनाभिमुखा भवन्ति । दरीगहनगुहाश्रयाः सत्त्वा दरीगहनगुहासु प्रविशन्ति । वृक्षालयाश्रयाः सत्त्वा वृक्षालयाश्रयाभिमुखा भवन्ति । 15 S 318 बिलाश्रयाः सत्त्वा बिलान्यनुप्रविशन्ति । ग्रामनगरनिगमजनपदाश्रयाः सत्त्वा ग्रामनगरनिगमजनपदाननुप्रविशन्ति । उदकाश्रयाः सत्त्वा जलमवतरन्ति । अम्यदिग्जनपदगताः सत्त्वाः खजनपददिक्चेतनामुत्पादयन्ति रात्रौ सुखस्पर्शविहाराय ॥
अपि तु खलु पुनरहं कुलपुत्र नरनारीगणानां दहराणां तरुणानां यौवनमदमत्तानां नृत्यगीतवाद्यरतिप्रमत्तानां सत्त्वानां कामगुणप्रयुक्तानां जातिजरामरणमहान्धकारभयप्रति - 20 पक्षाय कुशलमूलसंजानाभियोगं संवर्णयामि । मत्सरिणः सत्त्वान् दाने संनियोजयामि । दुःशीलान् सत्त्वान् शीले प्रतिष्ठापयामि । व्यापन्नचित्तानां सत्त्वानां मैत्रीं संवर्णयामि । क्षुभितचित्तान् सत्त्वान् क्षान्तौ प्रतिष्ठापयामि । कुसीदान् सत्त्वान् बोधिसत्त्ववीर्यारम्भे प्रतिष्ठापयामि । विभ्रान्तचित्तान् सत्त्वान् ध्यानेषु प्रतिष्ठापयामि । दुःप्रज्ञान् सत्त्वान् प्रज्ञापारमितायां नियोजयामि । हीनयानाधिमुक्तान् सत्त्वान् महायाने प्रतिष्ठापयामि । त्रैधातु- 25 काभिनिविष्टान् सत्त्वान् भवगतिनिष्ठामण्डलचारिणो बोधिसत्त्वप्रणिधानपारमितायां प्रतिष्ठापयामि । आवरणवशगतान् सत्त्वान् कर्मक्केशप्रपीडितान् पुण्यज्ञानबलपरिहीणान् बोधिसत्त्वबलपारमितायां प्रतिष्ठापयामि । अज्ञानसमोवनद्धान् सत्त्वान् अहंकारममेकारविद्यान्धकारप्राप्तान् बोधिसत्त्वज्ञानपारमितायां प्रतिष्ठापयामि ॥
अपि तु खलु पुनरहं कुलपुत्र विपुलप्रीतिसंभवसंतुष्टयवभासस्य बोधिसत्त्वविमोक्षस्य 30 लाभिनी । सुधन आह - क एतस्य देवते विपुलप्रीतिसंभवतुष्ट्यवभासस्य बोधिसत्त्वविमोक्षस्य १ चित्रान्त, २ Som, ममकार.