________________
B127
गण्डव्यूहसूत्रम्।
[३९.१५सर्वार्यमार्गममलं परिभावयन्ती
निर्यास्यसे जगदशेष विशोधयन्ती ॥ १५॥ त्वं सत्त्वसारथिवरानभिभूत देवि
सर्वज्ञज्ञानममलं प्रतिग्राहमाना । त्वं धर्मधातुगत सर्वि स्फरित्व सत्त्वान्
धर्म प्रकाश्य भय सर्वि शमसि लोके ॥ १६ ॥ वैरोचनप्रणिधिमार्गनयेन देवि
यास्यस्यसङ्गविपुलामलबुद्धियुक्ता । सर्वत्र जिनवलं प्रतिपद्यमाना
संपश्यसे जिनविकुर्वित सर्वक्षेत्रैः ॥ १७ ॥ चित्तं दुरासदु तवा गगनप्रकाशं __ सर्वे किलेशमलि निर्मलमादिशुद्धम् । यस्मिन् समोसरि त्रियध्वग सर्वक्षेत्रा
बुद्धाश्च सात्मजगणाः सह सर्वसत्त्वैः ॥१८॥ रात्रिंदिवं क्षणलवानृतुपक्षमासान्
संवत्सरांश्च सविनाशवितर्ककल्पान् । कल्पार्णवानपि सनामसमुद्रसंख्यान् ___ संज्ञोदधीन् जगतां विदर्शयसि क्षणेन ॥ १९ ॥ दिशतासु यावत तु सत्त्वच्युतोपपादा
ये रूपिणामपि च संज्ञिअसंज्ञिनां च । व्यवहारसत्यनय ओतरमाणा तेषां
मार्ग विदर्य यरबोधिपथे प्रणेसि ॥२०॥ वैरोचनप्रणिधिजालकुलात् प्रसृता
प्रभूतसर्वसुगतैकसमुच्छ्रयाच्च । त्वं धर्मकायपरिशुद्ध असङ्गचित्ता
रूपं विदर्शयसि लोकि यथाशयानाम् ॥ २१ ॥ अथ खलु सुधनः श्रेष्ठिदारकः सर्वनगररक्षासंभवतेजःश्रियं रात्रिदेवतामाभिः सारूप्याभिर्गाथाभिरभिष्टुत्य सर्वनगररक्षासंभवतेजःश्रियो रात्रिदेवतायाः पादौ शिरसाभिवन्ध सर्वनगररक्षासंभवतेजःश्रियं रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सर्वनगररक्षासंभवतेजःश्रियो रात्रिदेवताया अन्तिकाव्यकान्तः ॥ ३७ ॥
8317