________________
8322
15
२४६ गण्डव्यूहसूत्रम् ।
[४०.१कल्याणमित्रपरिग्रहेण विपुलपुण्यज्ञानसंभारोपस्तब्धचित्ततया आशयविशुद्ध्या अदीनाक्लिष्टावक्रानुपहतासंकुचितानन्धकारचित्ततया समन्तावभासज्ञानालोकावभासचित्ततया सर्वसत्त्वहितसुखाधानपरिणतचित्ततया सर्वमारमण्डलक्लेशदुर्धर्षचित्ततया सर्वज्ञताज्ञानप्रतिलम्भाव
काशचित्ततया सर्वसंसारसुखानभिलाषिभिस्तथागतसुखाध्यालम्बनैः सर्वसत्त्वदुःखदौर्मनस्य5 प्रशमनप्रतिपन्नैस्तथागतगुणसमुद्रावतारप्रतिपत्त्यभिमुखैः सर्वधर्मखभावनिध्यप्तिगगनगोचरैः उदाराधिमुक्तिपथविशुद्धैः संसारस्रोतोविमुखैः सर्वतथागतज्ञानसमुद्राभिमुखैः सर्वनगरगमननिश्चितैः तथागतविषयाक्रमणवीर्यैः बुद्धभूमिगतिविक्रान्तैः सर्वज्ञताबलपरिनिष्पत्त्यभिमुखैः दशबलप्रतिलम्भपर्यवसानैः सत्त्वैः शक्यमेतत्स्थानमवतरितुमधिमोक्तुमुद्रहीतुमनुसतु विज्ञातुम् । तत्कस्य हेतोः? तत्तथागतज्ञानविषयं हि कुलपुत्र एतत्स्थानमनाक्रान्तं सर्वबोधिसत्त्वैः, प्रागेव 10 अन्यैः सर्वसत्त्वैः । अथ च पुनस्तथागताधिष्ठानेन निर्देक्ष्यामि आजानेयानां सत्त्वानामाशय
सम्यग्विशुद्धये, कुशलमूलचरितानां सत्त्वानामध्याशयवशिताय, तव च अध्याशयपरिपृच्छाव्याकरणधर्मताप्रवर्तनाप्रतिलम्भाय ॥
अथ खलु सर्ववृक्षप्रफुल्लनसुखसंवासा रात्रिदेवता तस्यां वेलायामेतमेवार्थ भूयस्या मात्रया संदर्शयमाना त्र्यध्वप्राप्ततथागतविषयं व्यवलोक्य इमा गाथा अभाषत
गम्भीरु बौद्धो विषयो अनन्ता
यं पृच्छसि त्वं खलु बुद्धपुत्र । अचिन्तियक्षेत्ररजोपमानैः
कल्पैर्न शक्यं स हि सर्व वक्तुम् ॥ १ ॥ न लुब्धसत्त्वैन च दुष्टचित्तैः ___ शक्यं न मोहान्धसमोवृतैश्च । न म्रक्षमानोपहताशयैश्च
विजानितुं शान्त जिनान धर्मता ॥ २ ॥ नैाण मात्सर्यवशानुगामिभिः
न शाठ्यमायाकलुषाशयेभिः । न केशकर्मावरणावृतैश्च __शक्यो ह्ययं जानितु बुद्धगोचरः ॥ ३ ॥ न स्कन्धधात्वायतनप्रतिष्ठितैः
न चापि सत्कायसमाश्रितेभिः । न दृष्टिसंज्ञाविपरीतचित्तैः
शक्या इयं जानितु बुद्धभूमिः ॥ ४॥ दुर्जेय शान्तो विषयो जिनानां
खभावतो निर्मलनिर्विकल्पः।
30