SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 3 131 ३९ सर्वनगरक्षासंभवमेजःश्रीः। सर्वभवसमुद्रपरिवानप्यारभ्य सत्त्वानां धर्म देशयामि । एकस्यापि तथागतस्य नामचक्रसमुद्रमारभ्य धर्म देशयामि । एकमपि लोकधातुसमुद्रमारभ्य धर्म देशयामि । सर्वलोकधातुसमुद्रानप्यारभ्य धर्म देशयामि । एकमपि बुद्धव्याकरणसमुद्रमारभ्य धर्म देशयामि । सर्वतथागतव्याकरणसमुद्रानप्यारभ्य धर्म देशयामि । एकमपि तथागतपर्पन्मण्डलसमुद्रमारभ्य । धर्म देशयामि । सर्वतथागतपर्षन्मण्डलसमुद्रानप्यारभ्य धर्म देशयामि । एकमपि तथागतधर्मचक्रमारभ्य धर्म देशयामि । सर्वतथागतधर्मचक्रसमुद्रानप्यारभ्य धर्म देशयामि । एकमपि सूत्रान्तमारभ्य धर्म देशयामि । सर्वतथागतधर्मचक्रसमवसरणानपि सूत्रान्तानारभ्य धर्म देशयामि । एकमपि तथागतपर्पन्मण्डलसंनिपातमारभ्य धर्म देशयामि । सर्वतथागतपर्ष- न्मण्डलसमुद्रानप्यारभ्य धर्मं देशयामि । एकमपि सर्वज्ञताचित्तमारभ्य धर्म देशयामि । सर्वबोधि-10 चित्तासमुद्रानप्यारभ्य धर्म देशयामि । एकमपि यानमारभ्य धर्म देशयामि । सर्वयाननिर्याणसमुद्रानप्यारभ्य धर्म देशयामि । एतत्प्रमुखैरहं कुलपुत्र अनभिलाप्यैर्देशनानयाभिनिहारैः सत्त्वानां धर्मं देशयामि । एवमहं कुलपुत्र धर्मधातुनयासंभिन्नांस्तथागतसमुद्रानवतरमाणा सर्वसत्त्वानां धर्मदेशनया अनुत्तरधर्मसंग्रहं कुर्वाणा समन्तभद्रबोधिसत्त्वचर्यापरान्तकोटीगतान् कल्पसमुद्रान् संवसमाना एतन्मनोज्ञरुतगम्भीरविकुर्वितप्रवेशं बोधिसत्त्व-11 विमोक्षं भावयामि एकैकचित्तक्षणविवर्धनेन विमोक्षविषयभावनानयेन । एकैकेन च विमोक्षविषयभावनानयेन प्रतिचित्तक्षणं सर्वधर्मधातुं स्फरामि ।। सुधन आह—आश्चर्य देवते यावद्गम्भीर एष बोधिसत्त्वविमोक्षः । कियच्चिरप्रतिलब्धः त्वयायमार्ये बोधिसत्त्वविमोक्षः ? आह-भूतपूर्व कुलपुत्र अतीतेऽध्वनि लोकधातुपरिवर्तपरमाणुरजःसमानां कल्पानां परेण धार्चिनगरमेघा नाम लोकधातुरभूत् चातुर्दीपलोक- 20 धातुपरमाणुरजःसमगन्धमणिसुमेरुजालप्रतिष्ठिता सर्वतथागतपूर्वप्रणिधाननिर्घोषपद्मसंधिव्यूहा सर्वसत्त्वकर्मसमुद्रसंभूतमणिराजसागरशरीरा महापद्मसंस्थाना विशुद्धसंक्लिष्टा सुमेरुपरमाणुरजःसमपुष्पचक्रवालपरिवृता सुमेरुपरमाणुरजःसमगन्धमणिसुमेर्वभ्युद्गतालंकारा सुमेरुपरमाणुरजःसममहाचातुर्दीपिकालंकारा । एकैकस्यां चातुर्दीपिकायामनभिलाप्यानभिलाप्यनगरकोटीनियुतशतसहस्राण्यभूवन् ॥ 25 तस्यां खलु कुलपुत्र लोकधातौ विमलप्रभो नाम कल्पोऽभूत् सुमेरुपरमाणुरजःसमतथागतप्रभवः । तस्यां च धर्मार्चिनगरमेघायां लोकधातौ मध्यमा विचित्रध्वजा नाम चातुर्दीपिकाभूत् । तस्या मध्ये समन्तरत्नकुसुमप्रभा नाम राजधान्यभूत् । तस्या राजधान्या नातिदूरे धर्मराजभवनप्रतिभासो नाम बोधिमण्डोऽभूत् । तत्र बोधिमण्डे सर्वधर्मसागरनिर्घोषप्रभराजो नाम तथागत उदपादि तेषां सुमेरुपरमाणुरजःसमानां तथागतानां प्रथमकल्पिकः । तेन च समयेन विमलवक्रभानुप्रभो नाम राजा अभूत् चक्रवर्ती । तेन तस्य 30 भगवतः सर्वधर्मसागरनिर्घोषप्रभराज्ञस्तथागतस्यान्तिकात् सर्वधर्मसागरो नाम सूत्रान्त उद्गृहीतः । उद्गृह्य च धर्मचक्रमनुप्रवर्तितम् । परिनिर्वृतस्य च प्रवजित्वाशासनं संधारि 5 307
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy