SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ 3305 २३४ गण्डव्यूहसूत्रम्। [३९.०कुशलकर्मपथप्रहीणा सर्वसत्त्वकुशलधर्मप्रतिष्ठापनकर्मप्रयोगा सर्वसत्त्वक्षेमगतिसंप्रदर्शनप्रयोगा सर्वसत्त्वयानव्यूहपूर्वगमसंप्रस्थिता सर्वकुशलधर्मचक्रचरणसर्वसत्त्वप्रतिष्ठापनप्रयोगा सर्वकल्याणमित्राभेद्योपचरणाभिराधनसंप्रस्थिता सर्वसत्त्वतथागतशासनप्रतिष्ठापनप्रयोगा धर्मदानपूर्वंगमसर्वशुक्कधर्मसमारम्भप्रयोगा सर्वज्ञताचित्तोत्पादाभिजातदृढाभेद्याशया वज्रनारायण5 गर्भदृढवुद्धबलारम्वणविपुलचित्तमण्डला कल्याणमित्रमुपनिश्रित्य विहरामि । सर्वक्लेशकर्मा वरणपर्वतविकिरणचित्ता सर्वज्ञतासंभारसमारम्भा सर्वशुक्लधर्मसमर्जनप्रयोगा अनन्तमध्यसर्वज्ञताभिमुखारम्वणचेतनाप्रयोगप्रयुक्ता ॥ सा खलु पुनरहं कुलपुत्र एवंरूपं सर्वसत्त्वविज्ञापनं धर्मालोकमुखं परिशोधयमाना कुशलमूलोपचयसंभारप्रत्युपस्थितां दशभिराकारैर्धर्मधातुं व्यवलोकयामि अनुगच्छामि 10 असरामि । कतमैर्दशभिः? यदुत अप्रमेयं धर्मधातुमनुगच्छामि विपुलज्ञानालोकप्रतिलाभेन । अनन्तमध्यधर्मधातुमनुगच्छामि सर्वतथागतविकुर्वितविज्ञप्तये । अपर्यन्तधर्मधातुमनुगच्छामि सर्वबुद्धक्षेत्राक्रमणतथागतपूजोपस्थानपरिपूरये । असीमाप्राप्तं धर्मधातुमवतरामि सर्वलोकधातुसमुद्रेषु बोधिसत्त्वचर्यासंदर्शनतायै । अव्यवच्छिन्नं धर्मधातुमवतरामि असंभिन्नतथागतज्ञानमण्डलावतरणतायै । एकोतीभावगतं धर्मधातुमवतरामि यथाशयसर्वसत्त्वविज्ञपनतथागत15 खरमण्डलावतरणतायै । खभावविमलं धर्मधातुमवतरामि सर्वजगद्विनयनिष्ठागतपूर्वप्रणिधाननिष्ठावतरणतायै। सर्वजगत्समतानुगतं धर्मधातुमवतरामि समन्तभद्रबोधिसत्त्वचर्याप्रसरप्रवेशाय । एकालंकारं सर्वधर्मधातुमवतरामि समन्तभद्रवोधिसत्त्वचर्याविकुर्वितालंकारावतरणतायै । अविनाशनं धर्मधातुमवतरामि सर्वकुशलधर्मधातुस्फरणविशुद्ध्यविनाशधर्मताय । एभिरहं कुलपुत्र दशभिराकारैः सर्वधर्मधातुं व्यवलोकयामि अनुगच्छामि प्रसरामि B 123_20 सर्वकुशलमूलसंभारोपचयाय बुद्धमाहात्म्यावतरणतायै अचिन्त्यबुद्धविषयानुगमाय ॥ पुनरपरं कुलपुत्र अहमेवं तथागतमाहात्म्यानुगतैर्मनसिकारैर्दशभिर्धारणीमण्डलपरिवर्तसहस्रः सत्त्वानां धर्म देशयामि । कतमैर्दशभिः? यदुत सर्वधर्मसमुद्रसमवसरणेन च नाम्ना धारणीमण्डलेन । सर्वधर्माधिष्ठानेन च धारणीमण्डलेन । सर्वधर्ममेघसंप्रतीच्छनेन च धारणीमण्डलेन । सर्वतथागतस्मृतिप्रदीपेन च धारणीमण्डलेन । सर्वसत्त्वकर्मसमुद्रप्रदीप25 गर्भेण च धारणीमण्डलेन । सर्वयाननयसमुद्रविमलसमवसरणेन च धारणीमण्डलेन । सर्वतथागतनामचक्रावर्तनिर्घोषेण च धारणीमण्डलेन । त्र्यध्वबुद्धपूर्वनिर्वाणप्रणिधानसागरनिर्देशसमवसरणेन च धारणीमण्डलेन । सर्वधर्माभिमुखावर्तवेगेन च धारणीमण्डलेन । सर्वज्ञतावेशप्रमेण च नाम्ना धारणीमण्डलेन । एतानि च कुलपुत्र दश धारणीमण्डलानि प्रमुखं कृत्वा दशभिर्धारणीमण्डलपरिवर्तसहस्रैः सत्त्वानां धर्म देशयामि ॥ 80 पुनरपरं कुलपुत्र श्रुतमय्या प्रज्ञया सत्त्वानां धर्म देशयामि, चिन्तामय्या भावनामय्या प्रज्ञया सत्त्वानां धर्म देशयामि । एकमपि भवपरिवर्तमारभ्य सत्स्वानां धर्म देशयामि । S175 - १S om. धर्म'. २ B अधिष्ठानं.
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy