SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ३९ सर्वनगररक्षासंभव तेजः श्रीः । अथ खलु सुधनः श्रेष्ठिदारकस्तं विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहं बोधिसत्त्वविमोक्षं भावयन् संभावयन् प्रशान्तरुतसागरवत्या रात्रिदेवताया अववादानुशासनीमनुस्मरन्, निगमयन्, एकैकपदव्यञ्जनाने कनयाप्रमाणाशयं धर्मतानयज्ञानमनुस्मरन्, स्मृतावुपनिवध्नन्, मत्या प्रविचिन्वन्, गत्या अनुगच्छन्, बुद्ध्या विपुलीकुर्वन्, कायेन स्पृष्ट्वा विहरन्, 5 अवतरन्, अनुप्रविशन्, अनुपूर्वेण येन सर्वनगररक्षासंभवतेजः श्री रात्रिदेवता तेनोपसंक्रान्तः । सोऽपश्यत् सर्वनगररक्षासंभवतेजः श्रियं रात्रिदेवतां सर्वनगरभवनप्रभासमणिराजगर्भमहापद्मासने निषण्णामनभिलाप्यरात्रिदेवतापरिवारां सर्वदिक्सत्त्वजगदभिमुखेन कायेन सर्वजगद्रूपसमेन कायेन सर्वसत्त्वाभिमुखेन कायेन सर्वजगदनुलिप्तेन कायेन सर्वजगत्समशरीरेण कायेन सर्वजगदभ्युद्गतेन कायेन सर्वजगत्परिपाकविनयाकूलेन कायेन 10 समन्तदिङ्निगर्जनेन कायेन सर्वजगदसंक्रान्तेन कायेन सर्वावरणात्यन्तसमुद्घाटितेन कायेन तथागतखभावेन कायेन सर्वजगद्विनयनिष्ठापर्यवसानेन कायेन || S 303 S 304 दृष्ट्वा च तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः सर्वनगररक्षासंभवतेज:श्रियो रात्रिदेवतायाः पादौ शिरसाभिवन्द्य सर्वनगररक्षा संभवतेजः श्रियं रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य सर्वनगररक्षासंभवतेजः श्रियो रात्रिदेवतायाः पुरतः प्राञ्जलि: 15 स्थित्वा एवमाह - अहं खलु देवते अनुत्तरायां सम्यक्संबोधौ संप्रस्थितः । तद्वदख मे देवते कथं बोधिसत्त्वो बोधिसत्त्वत्चर्यायां चरन्नुपकारीभूतो भवति सत्त्वानाम् । कथं च सत्त्वाननुत्तरेण संग्रहेण संगृह्णाति । कथं बोधिसत्त्वस्तथागतानुज्ञातो बोधिसत्त्वकर्मणि प्रयुक्तो भवति, यथाप्रयुक्तस्य बोधिसत्त्वस्य आसन्नो भवति धर्मराजः । एवमुक्ते सर्वनगररक्षासंभवतेजः श्री रात्रिदेवता सुधनं श्रेष्ठिदारकमेतदवोचत् - साधु साधु कुलपुत्र, यस्त्वं सर्वजगत्परिपाक - 20 विनयनिष्ठागमनतायै सर्वतथागतवंशसंधारणप्रयोगनिष्ठागमनतायै सर्वदिक्प्रसरस्फरणज्ञानप्रयोगतायै सर्वधर्मधातुनयसागरावतरणाभिमुखतायै आकाशसमतलानन्तज्ञानज्ञेयस्फरणतायै सर्वतथागतधर्मचक्रप्रतीच्छनसंधारणतायै यथाशयसर्वजगत्समुद्र धर्ममेवाभिप्रवर्षणचर्यानयं परिपृच्छसि । अहं कुलपुत्र मनोज्ञरुतगम्भीरविकुर्वितप्रवेशस्य बोधिसत्त्वविमोक्षस्य लाभिनी । सा खलु पुनरहं कुलपुत्र अनेन विमोक्षेण समन्वागता असङ्गमहाधर्मभाणकपट्टबद्धाध्या - 25 लम्बन प्रयोगा सर्वतथागतधर्मकोशविश्राणनप्रणिधाना महाकरुणामैत्रीबलप्रतिलब्धा सर्व - सत्त्वबोधिचित्तप्रतिष्ठापनतायै सर्वसत्त्वार्थक्रियासंप्रस्थिता अप्रतिप्रस्रन्धबोधिचित्तकुशलमूलसंभारोपचयाय सर्वजगत्सारथि भूमिसंप्रस्थिता सर्वसत्त्वानां सर्वज्ञतामार्गप्रतिष्ठापनतायै, सर्वलोके धर्ममेघधर्मसूर्यसंभवप्रयोगा अप्रमेयकुशलमूलप्रभवसर्वलोकावभासनतायै, सर्वजगत्समचित्तप्रसृताप्रतिप्रश्रब्धा सर्वजगत्कुशलमूलाभिसंस्कारसंमार्जनप्रयोगविज्ञानतायै, विशुद्ध - 20 चित्तप्रयोगा सर्वकुशल कर्मपथप्रदक्षिणकर्मान्ततया सर्वसत्त्वसार्थवाहत्वाय संप्रस्थिता सर्वा 4 Bom. संभारो... मिसंस्कार. गण्ड ३०
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy