________________
२३२ गण्डव्यूहसूत्रम्
[३८.१८खप्नोपमं लोकमिमं विदित्वा
बुद्धांश्च सर्वान् प्रतिभासकल्पान् । धर्मान् प्रतिश्रुत्कसमानशेषा
नसज्जमाना जगति प्रवर्तसे ॥ १८ ॥ त्र्यध्वस्थितस्यापि जनस्य देवि
प्रतिक्षणं दर्शयसि खकायम् । द्वयप्रवृत्तिर्न च तेऽस्ति चित्ते
धर्म वदस्येव च सर्वदिक्षु ॥ १९ ॥ रजस्यनन्ता हि महासमुद्रा
तथामिताः सत्त्वमहासमुद्राः। अनन्तमध्या सुगतार्णवाश्च
विमोक्षचर्यस्य हि गोचरस्ते ॥ २० ॥ अथ खलु सुधनः श्रेष्ठिदारकः प्रशान्तरुतसागरवती रात्रिदेवतामाभिर्गाथाभिरभि
टुत्य अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य प्रशान्तरुतसागरवल्या B 122 15रात्रिदेवताया अन्तिकाप्रक्रान्तः॥ ३६॥
40