SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ -३८.१७] ३८ प्रशान्तरुतसागरवती । २३१ अथ खल्लु सुधनः श्रेष्ठिदारकः प्रशान्तरुतसागरवती रात्रिदेवतामाभिः सारूप्याभिर्गाथाभिरध्यभाषत कल्याणमित्रेण समानुशिष्टे उपागतस्तुभ्य सकाशु देवि ।। पश्यामि ते आसनु संनिषण्णा अनन्तमध्येन समुच्छ्रयेण ॥ ११ ॥ न वर्णसंस्थाननिमित्तगोचरै भवाश्रितैर्नापि च भावसंज्ञिभिः । न हीनसत्त्वैविपरीतदर्शिभिः शक्यस्तव ज्ञातुमयं हि गोचरः ॥ १२ ॥ ज्ञातुं न लोकेन सहदेवकेन त्वपूर्णरूपस्य निमित्त शक्यम् । कल्पाननन्तान् समुदीक्षतापि तथा हि ते रूपमनन्तदर्शनम् ॥ १३ ॥ स्कन्धालयादुच्चलितासि देवि प्रतिष्ठिता नायतनेषु च त्वम् । लोकव्यतीता च वितीर्णकाङ्क्षा संदृश्यसे लोकि विकुवेमाणा ॥ १४ ॥ अनिञ्जप्राप्तास्यनघा असङ्गा विशोधितं ते वैरज्ञानचक्षुः । रजःपथे सर्वरजप्रमाणान् येनेक्षसे बुद्ध विकुर्वमाणान् ॥ १५ ॥ कायो हि ते धर्मशरीरगर्भः चित्तं च ते ज्ञानमयं असङ्गम् । समन्तओभासप्रभासिता त्व___ मालोकु लोके जनयस्यनन्तम् ॥ १६ ॥ चित्तादनन्तं समुदेति कर्म विचित्रितः कर्मण सर्वलोकः। चित्तखभावं च जगद्विदित्वा जगत्समान् दर्शयसि खकायान् ॥ १७ ॥ १S lacuna for सहदेवकेन supplied from B. R S बल.
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy