________________
२३०
गण्डव्यूहसूत्रम् ।
[३८.५माता पिता गुरुजनः सततं ___ मय सत्कृता हितसुखेन तदा । उपस्थानु गौरवस्थिताय कृतं
एतं विमोक्षनयमोतरमाणा ॥ ५॥ जीर्णातुरा धनविहीन नरा __ विकलेन्द्रिया दुखि अनाथ बहू । ते मे सुखे स्थपिय मैत्रमना
सुधना सनाथ कृत जातिशतान् ॥ ६ ॥ राजाग्नितस्करजलप्रभवा
सिंहद्विपा हि परशत्रुभयात् । विविधैर्भयैर्भवसमुद्रगता
मय त्रायिता विचरतीय पुरा ॥ ७ ॥ क्लेशप्रतापित सदा त्रिभवे
कः प्रभावित तथा अशुभैः । संसारपर्वतप्रपातगता ___ मय त्रायिता भवगतीषु प्रजा ॥ ८॥ ये दुःखदुर्गतिप्रपातभयाः
तीव्रा निरन्तरखरा सुबहू। जातीजरामरणरोगभया
लोके मया शमित ते निखिला ॥९॥ संसारतीव्रदुखसंशमनं
सत्त्वान सर्वसुखसंजननम् । अत्यन्तबुद्धसुखसंजननं
अपरान्तकल्प प्रणिधानु मम ॥ १० ॥ ___25 एतमहं कुलपुत्र विपुलप्रीतिवेगसंभवचित्तक्षणव्यूह बोधिसत्त्वविमोक्षं जानामि । किं . मया शक्यं सर्वधर्मधातुनयसागरावतीर्णानां बोधिसत्त्वानामाध्यात्मिकबाह्यनिरवशेषदुःख5802विप्रमुक्तानां सर्वकल्पसंज्ञागतज्ञानप्रतिलब्धानां सर्वलोकधातुसमुद्रसंभवविभवज्ञानकुशलानां
चर्या ज्ञातुं गुणान् वा वक्तुम् ॥
___ गच्छ कुलपुत्र, इयमिहैव बोधिमण्डे भगवतो वैरोचनस्य पर्षन्मण्डले सर्वनगररक्षा30 संभवतेजःश्रीर्नाम रात्रिदेवता । तामुपसंक्रम्य परिपृच्छ–कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् ॥
Som, कमैः RS om. °विभव